(सखि् साहस—सद्भावेन पृच्छामः किमशेषमहिलानाम्।
वर्धन्ते करस्थिता एव वलया दयिते प्रोषिते॥)
कस्स भरिसि त्ति भणिए॰॥ २६९॥
धीरा मध्या यथा—(गास. ४.९)
जं जं पिहुलं अंगं तं तं जाअं किसोअरि ! किसं ते।
जं जं तणुअं तं तं पि णिट्ठिअं, किं त्थ माणेण ?॥ २७०॥
(यद् यत् पृथुलमङ्ग तत्तत् जातं कृशोदरि ! कृशं ते।
यद्यत् तनुकं तत्तदपि निष्ठितं, किमत्र मानेन ?॥)