लोलैर्लोचनवारिभिः सशपथैः पादप्रणामैः प्रियैर् अन्यास्ता विनिवारयन्ति कृपणाः प्राणेश्वरं प्रस्थितम् । पुण्याहं व्रज मङ्गलं सुदिवसं प्रातः प्रयातस्य ते यत्स्नेहोचितमीहितं प्रियतम त्वं निर्गतः श्रोष्यसि ॥
Metre: शार्दूलविक्रीडितम्
लग्ना नांशुकपल्लवे भुजलता न द्वारदेशेऽर्पिता नो वा पादतले तया निपतितं तिष्ठेति नोक्तं वचः । काले केवलमम्बुदातिमलिने गन्तुं प्रवृत्तः शठः तन्व्या बाष्पजलौघकल्पितनदीपूरेण बद्धः प्रियः ॥
Metre: शार्दूलविक्रीडितम्
न जाने संमुखायाते प्रियाणि वदति प्रिये । सर्वाण्यङ्गानि मे यान्ति श्रोत्रतां किमु नेत्रताम् ॥
Metre: अनुष्टुप्
विरहविषमः कामो वामस्तनुं कुरुते तनुं दिवसगणनादक्षश्चासौ व्यपेतघृणो यमः । त्वमपि वशगो मानव्याधेर्विचिन्तय नाथ हे किसलयमृदुर्जीवेद् एवं कथं प्रमदाजनः ॥
Metre: हरिणी
पादासक्ते सुचिरमिह ते वामता कैव कान्ते सन्मार्गस्थे प्रणयिनि जने कोपने कोऽपराधः । इत्थं तस्याः परिजनकथा कोपवेगोपशान्तौ बाष्पोद्भेदैस्तदनु सहसा न स्थितं न प्रयातम् ॥
Metre: मन्दाक्रान्ता
पुराभूदस्माकं नियतमविभिन्ना तनुरियं ततो नु त्वं प्रेयान्वयमपि हताशाः प्रियतमाः । इदानीं नाथस्त्वं वयमपि कलत्रं किमपरं मयाप्तं प्राणानां कुलिशकठिनानां फलमिदम् ॥
Metre: शिखरिणी
मुग्धे मुग्धतयैव नेतुमखिलः कालः किमारभ्यते मानं धत्स्व धृतिं बधान ऋजुतां दूरे कुरु प्रेयसि । सख्यैवं प्रतिबोधिता प्रतिवचस्तामाह भीतानना नीचैः शंस हृदि स्थितो ननु स मे प्राणेश्वरः श्रोष्यति ॥
Metre: शार्दूलविक्रीडितम्
पीतो यतः प्रभृति कामपिपासितेन तस्या मयाधररसः प्रचुरः प्रियायाः । तृष्णा ततः प्रभृति मे द्विगुणत्वमेति लावण्यमस्ति बहु तत्र किमपि चित्रम् ॥
Metre: वसन्ततिलका
क्व प्रस्थितासि करभोरु घने निशीथे प्राणाधिको वसति यत्र जनः प्रियो मे । एकाकिनी वद कथं न बिभेषि बाले नन्वस्ति पुङ्खितशरो मदनः सहायः ॥
Metre: वसन्ततिलका
लीलातामरसाहतोऽन्यवनितानिःशङ्कदष्टाधरः कश्चित्केसरदूषितेक्षण इव व्यामील्य नेत्रे स्थितः । मुग्धा कुड्मलिताननेन दधतो वायुं स्थिता तस्य सा भ्रान्त्या धूर्ततया च वेपथुमती तेनानिशं चुम्बिता ॥
Metre: शार्दूलविक्रीडितम्