चरणपतनं सख्यालापा मनोहरचाटवः कृशतरतनोर्गाढाश्लेषो हठात्परिचुम्बनम् । इति हि चपलो मानारम्भस्तथापि हि नोत्सहे हृदयदयितः कान्तः कामं किमत्र करोम्यहम् ॥
Metre: हरिणी
अहं तेनाहूता किमपि कथयामीति विजने समीपे चासीना सरसहृदयत्वाद् अवहिता । ततः कर्णोपान्ते किमपि वदताघ्राय वदनं गृहीता धर्मिल्ले सखि स च मया गाढमधरे ॥
Metre: शिखरिणी
चक्षुःप्रीतिप्रसक्ते मनसि परिचये चिन्त्यमानाभ्युपाये रागे यातेऽतिभूमिं विकसति सुतरां गोचरे दूतिकायाः । आस्तां दूरेण तावत्सरभसदयितालिङ्गनानन्दलाभस्तद्गेहोपान्तरथ्याभ्रमणमपि परां निर्वृतिं संतनोति ॥
Metre: स्रग्धरा
कान्ते तल्पमुपागते विगलिता नीवी स्वयं बन्धनाद्वासो विश्लथमेखलागुणधृतं किंचिन्नितम्बे स्थितम् । एतावत्सखि वेद्मि साम्प्रतमहं तस्याङ्गसङ्गे पुनः कोऽयं कास्मि रतं नु वा कथमिति स्वल्पापि मे न स्मृतिः ॥
Metre: शार्दूलविक्रीडितम्
प्रासादे सा दिशि दिशि च सा पृष्ठतः सा पुरः सा पर्यङ्के सा पथि पथि च सा तद्वियोगातुरस्य । हंहो चेतः प्रकृतिरपरा नास्ति मे कापि सा सा सा सा सा सा जगति सकले कोऽयमद्वैतवादः ॥
Metre: मन्दाक्रान्ता
अनालोच्य प्रेम्णः परिणतिमनादृत्य सुहृदस्त्वयाकाण्डे मानः किमिति सरले प्रेयसि कृतः । समाकृष्टा ह्येते विरहदहनोद्भासुरशिखाः स्वहस्तेनाङ्गारास्तद् अलमधुनारण्यरुदितैः ॥
Metre: शिखरिणी