दृष्टः कातरनेत्रया चिरतरं बद्धाञ्जलिं याचितः पश्चादंशुकपल्लवेन विधृतो निर्व्याजमालिङ्गितः । इत्याक्षिप्य यदा समस्तमघृणो गन्तुं प्रवृत्तः शठः पूर्वं प्राणपरिग्रहो दयितया मुक्तस्ततो वल्लभः ॥
Metre: शार्दूलविक्रीडितम्
कृतो दूरादेव स्मितमधुरमभ्युद्गमविधिः शिरस्याज्ञा न्यस्ता प्रतिवचनवत्यानतिमति । न दृष्टेः शैथिल्यं मिलन इति चेतो दहति मे निगूढान्तःकोपात्कठिनहृदये संवृतिरियम् ॥
Metre: शिखरिणी
एकस्मिञ्शयने विपक्षरमणीनामग्रहे मुग्धया सद्यः कोपपराङ्मुखं शयितया चाटूनि कुर्वन्नपि । आवेगादवधीरितः प्रियतमस्तूष्णीं स्थितस्तत्क्षणात्मा भूः सुप्त इवैष मन्दवलितग्रीवं पुनर्वीक्षितः ॥
Metre: शार्दूलविक्रीडितम्
मलयमरुतां वाता याता विकासितमल्लिकापरिमलभरो भग्नो ग्रीष्मस्त्वमुत्सहसे यदि । घन घटयितुं निःस्नेहं त्वां य एव निवर्तने प्रभवति गवां किं नश्छिन्नं स एव धनञ्जयः ॥
Metre: हरिणी
स्वं दृष्ट्वा करजक्षतं मधुमदक्षीबा विचार्येर्ष्यया गच्छन्ती क्व नु गच्छसीति विधृता बाला पटान्ते मया । प्रत्यावृत्तमुखी सबाष्पनयना मां मुञ्च मुञ्चेति सा कोपात्प्रस्फुरिताधरा यदवदत्तत्केन विस्मर्यते ॥
Metre: शार्दूलविक्रीडितम्
सालक्तकं शतदलाधिककान्तिरम्यं रत्नौघधामनिकरारुणनूपुरं च । क्षिप्तं भृशं कुपितया तरलोत्पलाक्ष्या सौभाग्यचिह्नमिव मूर्ध्नि पदं विरेजे ॥
Metre: वसन्ततिलका
कपोले पत्राली करतलनिरोधेन मृदिता निपीतो निःश्वासैरयममृतहृद्योऽधररसः । मुहुः कण्ठे लग्नस्तरलयति बाष्पः स्तनतटं प्रियो मन्युर्जातस्तव निरनुरोधे न तु वयम् ॥
Metre: शिखरिणी
लाक्षालक्ष्मललाटपट्टमभितः केयूरमुद्रा गले वक्त्रे कज्जलकालिमा नयनयोस्ताम्बूलरागो घनः । दृष्टा कोपविधायि मण्डनमिदं प्रातश्चिरं प्रेयसो लीलातामरसोदरे मृगदृशः श्वासाः समाप्तिं गताः ॥
Metre: शार्दूलविक्रीडितम्
तप्ते महाविरहवह्निशिखावलीभिर् आपाण्डुरस्तनतटे हृदये प्रियायाः । रथ्यालिवीक्षणनिवेशितलोलदृष्टेर्नूनं छनच्छनिति बाष्पकणाः पतन्ति ॥
Metre: वसन्ततिलका
चिन्तामोहविनिश्चलेन मनसा मौनेन पादानतः प्रत्याख्यानपराङ्मुखः प्रियतमो गन्तुं प्रवृत्तोऽधुना । सव्रीडैर् अलसैर्निरन्तरलुठद्बाष्पाकुलैर्लोचनैः श्वासोत्कम्पकुचं निरीक्ष्य सुचिरं जीवाशया वारितः ॥
Metre: शार्दूलविक्रीडितम्