स्फुटतु हृदयं कामं कामं करोतु तनुं तनुं न सखि चटुलप्रेम्णा कार्यं पुनर्दयितेन मे । इति सरभसं मानाटोपाद् उदीर्य वचस्तया रमणपदवी सारङ्गाक्ष्या सशङ्कितमीक्षिता ॥
Metre: हरिणी
गाढाश्लेषविशीर्णचन्दनरजःपुञ्जप्रकर्षादियं शय्या सम्प्रति कोमलाङ्गि परुषेत्यारोप्य मां वक्षसि । गाढौष्ठग्रहपूर्वमाकुलतया पादाग्रसंदंशकेनाकृष्याम्बरमात्मनो यदुचितं धूर्तेन तत्प्रस्तुतम् ॥
Metre: शार्दूलविक्रीडितम्
कथमपि कृतप्रत्याख्याने प्रिये स्खलितोत्तरे विरहकृशया कृत्वा व्याजं प्रकल्पितमश्रुतं । असहनसखीश्रोत्रप्राप्तिप्रमादससंभ्रमं विगलितदृशा शून्ये गेहे समुच्छ्वसितं पुनः ॥
Metre: हरिणी
आ दृष्टिप्रसरात्प्रियस्य पदवीमुद्वीक्ष्य निर्विण्णया विच्छिन्नेषु पथिष्वहःपरिणतौ ध्वान्ते समुत्सर्पति । दत्तैकं सशुचा गृहं प्रति पदं पान्थस्त्रियास्मिन्क्षणे मा भूदागत इत्यमन्दवलितग्रीवं पुनर्वीक्षितम् ॥
Metre: शार्दूलविक्रीडितम्
आयाते दयिते मनोरथशतैर्नीत्वा कथंचिद्दिनं वैदग्ध्यापगमाज्जडे परिजने दीर्घां कथां कुर्वति । दष्टास्मीत्यभिधाय सत्वरपदं व्याधूय चीनांशुकं तन्वङ्ग्या रतिकातरेण मनसा नीतः प्रदीपः शमम् ॥
Metre: शार्दूलविक्रीडितम्
आलम्ब्याङ्गणवाटिकापरिसरे चूतद्रुमे मञ्जरीं सर्पत्सान्द्रपरागलम्पटरणद्भृङ्गाङ्गनाशोभिनीम् । मन्ये स्वां तनुमुत्तरीयशकलेनाच्छाद्य बाला स्फुरत्कण्ठध्वाननिरोधकम्पितकुचश्वासोद्गमा रोदिति ॥
Metre: शार्दूलविक्रीडितम्
यास्यामिति समुद्यतस्य गदितं विश्रब्धम् आकर्णितं गच्छन्दूरमुपेक्षितो मुहुरसौ व्यावृत्य तिष्ठन्नपि । तच्छून्ये पुनरास्थितास्मि भवने प्राणास्त एते दृढाः सख्यस्तिष्ठत जीवितव्यसनिनी दम्भादहं रोदिमि ॥
Metre: शार्दूलविक्रीडितम्
शून्यं वासगृहं विलोक्य शयनादुत्थाय किंचिच्छनैर्निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम् । विश्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थलीं लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता ॥
Metre: शार्दूलविक्रीडितम्
लोलद्भ्रूलतया विपक्षदिगुपन्यासेऽवधूतं शिरस्तद्वृत्तान्तनिरीक्षणे कृतनमस्कारो विलक्षः स्थितः । कोपात्ताम्रकपोलभित्तिनि मुखे दृष्ट्या गतः पादयोर् उत्सृष्टो गुरुसन्निधावपि विधिर्द्वाभ्यां न कालोचितः ॥
Metre: शार्दूलविक्रीडितम्
जाता नोत्कलिका स्तनौ न लुलितौ गात्रं न रोमाञ्चितं वक्त्रं स्वेदकणान्वितं न सहसा यावच्छठेनामुना । दृष्टेनैव मनो हृतं धृतिमुषा प्राणेश्वरेणाद्य मे तत्केनात्र निरूप्यमाणनिपुणो मानः समाधीयताम् ॥
Metre: शार्दूलविक्रीडितम्