कान्ते सागसि शायिते प्रियसखीवेशं विधायागते भ्रान्त्यालिङ्ग्य मया रहस्यमुदितं तत्सङ्गमाकाङ्क्षया । मुग्धे दुष्करमेतद् इत्यतितरामुक्त्वा सहासं बलाद् आलिङ्ग्य छलितास्मि तेन कितवेनाद्य प्रदोषागमे ॥
Metre: शार्दूलविक्रीडितम्
आशङ्क्य प्रणतिं पटान्तपिहितौ पादौ करोत्यादरात्व्याजेनागतमावृणोति हसितं न स्पष्टमुद्वीक्षते । मय्यालापवति प्रतीपवचनं सख्या सहाभाषते तस्यास्तिष्ठतु निर्भरप्रणयिता मानोऽपि रम्योदयः ॥
Metre: शार्दूलविक्रीडितम्
सा यावन्ति पदान्यलीकवचनैरालीजनैः शिक्षिता तावन्त्येव कृतागसो द्रुततरं व्याहृत्य पत्युः पुरः । प्रारब्धा पुरतो यथा मनसिजस्याज्ञा तथा वर्तितुं प्रेम्णो मौग्ध्यविभूषणस्य सहजः कोऽप्येष कान्तः क्रमः ॥
Metre: शार्दूलविक्रीडितम्
दूरादुत्सुकमागते विवलितं सम्भाषिणि स्फारितं संश्लिष्यत्यरुणं गृहीतवसने किंचिन्नतभ्रूलतम् । मानिन्याश्चरणानतिव्यतिकरे बाष्पाम्बुपूर्णेक्षणं चक्षुर्जातमहो प्रपञ्चचतुरं जातागसि प्रेयसि ॥
Metre: शार्दूलविक्रीडितम्
अङ्गानामतितानवं कथमिदं कम्पश्च कस्मात्कुतो मुग्धे पाण्डुकपोलमाननमिति प्राणेश्वरे पृच्छति । तन्व्या सर्वमिदं स्वभावजमिति व्याहृत्य पक्ष्मान्तरव्यापी बाष्पभरस्तया चलितया निःश्वस्य मुक्तोऽन्यतः ॥
Metre: शार्दूलविक्रीडितम्
पुरस्तन्व्या गोत्रस्खलनचकितोऽहं नतमुखः प्रवृत्तो वैलक्ष्यात्किमपि लिखितुं दैवहतकः । स्फुटो रेखान्यासः कथमपि स तादृक्परिणतो गता येन व्यक्तं पुनरवयवैः सैव तरुणी ॥
Metre: शिखरिणी
कठिनहृदये मुञ्च भ्रान्तिं व्यलीककथाश्रितां पिशुनवचनैर्दुःखं नेतुं न युक्तमिमं जनम् । किमिदमथवा सत्यं मुग्धे त्वया हि विनिश्चितं यद् अभिरुचितं तन्मे कृत्वा प्रिये सुखमास्यताम् ॥
Metre: हरिणी
मन्दं मुद्रितपांशवः परिपतज्झङ्कारझञ्झामरुद्वेगध्वस्तकुटीरकान्तरगतच्छिद्रेषु लब्धान्तराः । कर्मव्यग्रकुटुम्बिनीकुचतटस्वेदच्छिदः प्रावृषः प्रारम्भे निपतन्ति कन्दलदलोल्लासाः पयोबिन्दवः ॥
Metre: शार्दूलविक्रीडितम्
पीतस्तुषारकिरणो मधुनैव सार्धम् अन्तः प्रविश्य चषके प्रतिबिम्बवर्ती । मानान्धकारमपि मानवतीजनस्य नूनं बिभेद यद् असौ प्रससाद सद्यः ॥
Metre: वसन्ततिलका
नभसि जलदलक्ष्मीं सम्भृतां वीक्ष्य दिष्ट्या प्रसरसि यदि कान्तेत्यर्धमुक्त्वा कथंचित् । मम पटमवलम्ब्य प्रोल्लिखन्ती धरित्रीं तदनुकृतवती सा यत्र वाचो निवृत्ताः ॥
Metre: मालिनी