प्रस्थानं वलयैः कृतं प्रियसखैरजस्रं गतं धृत्या न क्षणमासितं व्यवसितं चित्तेन गन्तुं पुरः । गन्तुं निश्चितचेतसि प्रियतमे सर्वे समं प्रस्थिता गन्तव्ये सति जीवितप्रियसुहृत्सार्थः किमु त्यज्यते ॥
Metre: शार्दूलविक्रीडितम्
संदष्टाधरपल्लवा सचकितं हस्ताग्रम् आधुन्वती मामामुञ्च शठेति कोपवचनैर् आनर्तितभ्रूलता । शीत्काराञ्चितलोचना सरभसं यैश्चुम्बिता मानिनी प्राप्तं तैरमृतं मुधैव मथितो मूढैः सुरैः सागरः ॥
Metre: शार्दूलविक्रीडितम्
सुप्तोऽयं सखि सुप्यतामिति गताः सख्यस्ततोऽनन्तरं प्रेमावासितया मया सरलया न्यस्तं मुखं तन्मुखे । ज्ञातेऽलीकनिमीलने नयनयोर्धूर्तस्य रोमाञ्चतो लज्जासीन्मम तेन साप्यपहृता तत्कालयोग्यैः क्रमैः ॥
Metre: शार्दूलविक्रीडितम्
कोपो यत्र भ्रूकुटिरचना निग्रहो यत्र मौनं यत्रान्योन्यस्मितमनुनयो यत्र दृष्टिः प्रसादः । तस्य प्रेम्णस्तद् इदमधुना वैषमं पश्य जातं त्वं पादान्ते लुठसि नहि मे मन्युमोक्षः खलायाः ॥
Metre: मन्दाक्रान्ता
सुतनु जहिहि कोपं पश्य पादानतं मां न खलु तव कदाचित्कोप एवंविधोऽभूत् । इति निगदति नाथे तिर्यगामीलिताक्ष्या नयनजलमनल्पं मुक्तमुक्तं न किंचित् ॥
Metre: मालिनी
गाढालिङ्गनवामनीकृतकुचप्रोद्भिन्नरोमोद्गमा सान्द्रस्नेहरसातिरेकविगलत्श्रीमन्नितम्बाम्बरा । मा मा मानद माति मामलमिति क्षामाक्षरोल्लापिनी सुप्ता किं नु मृता नु किं मनसि मे लीना विलीना नु किम् ॥
Metre: शार्दूलविक्रीडितम्
पटालग्ने पत्यौ नमयति मुखं जातविनया हठाश्लेषं वाञ्छत्यपहरति गात्राणि निभृतम् । न शक्नोत्याख्यातुं स्मितमुखसखीदत्तनयना ह्रिया ताम्यत्यन्तः प्रथमपरिहासे नववधूः ॥
Metre: शिखरिणी
गते प्रेमाबन्धे प्रणयबहुमाने विगलिते निवृत्ते सद्भावे जन इव जने गच्छति पुरः । तद् उत्प्रेक्ष्योत्प्रेक्ष्य प्रियसखि गतांस्तांश्च दिवसान्न जाने को हेतुर्दलति शतधा यन्न हृदयम् ॥
Metre: शिखरिणी
चिरविरहिणोर् उत्कण्ठार्तिश्लथीकृतगात्रयोर्नवमिव जगज्जातं भूयश्चिराद् अभिनन्दतोः । कथमपि दिने दीर्घे याते निशामधिरूढयोः प्रसरति कथा बह्वी यूनोर्यथा न तथा रतिः ॥
Metre: हरिणी
दीर्घा वन्दनमालिका विरचिता हृष्ट्यैव नेन्दीवरैः पुष्पाणां प्रकरः स्मितेन रचितो नो कुन्दजात्यादिभिः । दत्तः स्वेदमुचा पयोधरयुगे नार्घ्यो न कुम्भाम्भसा स्वैरेवावयवैः प्रियस्य विशतस्तन्व्या कृतं मङ्गलम् ॥
Metre: शार्दूलविक्रीडितम्