पीतभूरिसुरयापि न भेदे निर्वृतिर्हि मनसो मदहेतुः॥ ५१॥
८. बहिर्व्याजं यथा—(माघ. १०.३६)
आननैर्विचकसे हृषिताभिर्वल्लभानभितनूभिरभावि।
आर्द्रतां हृदयमाप च रोषो लोलति स्म वचनेषु वधूनाम्॥ ५२॥
९. एकव्याजं यथा—(माघ. १०.३५)
शङ्कयान्ययुवतौ वनिताभिः प्रत्यभेदि दयितः स्फुटमेव।
न क्षमं भवति तत्त्वविचारे मत्सरेण हतसंवृति चेतः॥ ५३॥
१०. बहुव्याजं यथा—(अमरु. ७५)
कथमपि कृतप्रत्यापत्तौ प्रिये स्खलितोत्तरे विरहकृशया कृत्वा व्याजं प्रकल्पितमश्रुतम्।
असहनसखीश्रोत्रप्राप्तिप्रमादस/मसम्भ्रमं विचलितदृशा शून्ये गेहे समुच्छ्वसितं पुरः॥ ५४॥