(अन्यदयिताप्रसङ्गं हे देव कुरु मे दयितस्य।
पुरुषा एकान्तरसा न खलु दोषगुणो विजानन्ति॥)
५. कृत्रिमव्याजं यथा—(काव्याद. २.२४३)
मानयोग्यां करोमीति प्रियस्थाने स्थितां सखीम्।
बाला भ्रूभङ्गजिह्माक्षी पश्यति स्फुरिताधरा॥ ४९॥
६. अपेक्षितव्याजं यथा—(कुसं. ६.४५)
भ्रूभङ्गिभिः सकम्पोष्ठैर्ललिताङ्गुलितर्जनैः।
यत्र कोपैः कृताः स्त्रीणामप्रसादार्थिनः प्रियाः॥ ५०॥
७. अन्तर्व्याजं यथा—(माघ. १०.२८)
अन्ययान्यवनितागतचित्तं चित्तनाथमभिशङ्कितवत्या।