११. सर्वव्याजं यथा—(किराता. ९.६०)
मा गमन्मदविमूढधियो नः प्रोज्झ्य रन्तुमिति शङ्कितनाथाः।
योषितो न मदिरां भृशमीषुः प्रेम पश्यति भयान्यपदेऽपि॥ ५५॥
१२. निर्व्याजं यथा—(किराता. ९.४३)
द्वारि चक्षुरधिपाणि कपोल(लौ) जीवितं त्वयि कुतः कलहोऽस्याः।
योषितामिति वचः पुनरुक्तं प्रीतये नवनवत्वमियाय॥ ५६॥
सोऽयमुपसर्गस्य सङ्करार्थम्।
अथ सम्पूर्णतापक्षे अनुबन्धोपाये प्रेम द्वादशप्रकारंभवति— धर्मानुबन्धम् , अर्थानुबन्धं, धर्मार्थानुबन्धम्, अधर्माऽर्थानुबन्धम् इत्यादि।
. . अस्सपत . . सं अंलस्स विरसो रसो होइ।