नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 2721 to 2730 of 2826 verses
Verse 50
तानीव गत्वा पितृलोकमेनमरञ्जयन्यानि स जामदग्न्यः । छित्त्वा शिरोस्त्राणि सहस्रबाहोर्विस्राणि विश्राणितवान्पितृभ्यः ॥
Metre: उपजातिः

Verse 51
अकर्णनासस्त्रपते मुखं ते पश्यन्न सीतास्यमिवाभिरामम् । रक्तोस्रवर्षी बत लक्ष्मणाभिभूतः शशी शूर्पणखामुखाभः ॥
Metre: उपजातिः

Verse 52
आदत्त दीप्रं मणिमम्बरस्य दत्त्वा यदस्मै खलु सायधूर्तः । रज्यत्तुषारद्युतिकूटहेम तत्पाण्डु जातं रजतं क्षणेन ॥
Metre: इन्द्रवज्रा

Verse 53
बालेन नक्तंसमयेन मुक्तं रौप्यं लसद्बिम्बमिवेन्दुबिम्बम् । भ्रमिक्रमादुज्झितपट्टसूत्रनेत्रावृतिं मुञ्चति शोणिमानम् ॥
Metre: उपजातिः

Verse 54
ताराक्षरैर्यामसिते कठिन्या निशालिखद्व्योम्नि तमःप्रशस्तिम् । विलुप्य तामल्पयतोऽरुणेऽपि जातः करे पाण्डुरिमा हिमांशोः ॥
Metre: उपजातिः

Verse 55
सितो यदात्रैष तदान्यदेशे चकास्ति रज्यच्छविरुज्जिहानः । तदित्थमेतस्य निधेः कलानां को वेद वा रागविरागतत्त्वम् ॥
Metre: उपजातिः

Verse 56
कश्मीरजै रश्मिभिरौपसंध्यैर्मृष्टं धृतध्वान्तकुरङ्गनाभि । चन्द्रांशुना चन्दनचारुणाङ्गं क्रमात्समालम्भि दिगङ्गनाभिः ॥
Metre: उपजातिः

Verse 57
विधिस्तुषारर्तुदिनानि कर्तंकर्तं विनिर्माति तदन्तभित्तैः । ज्योत्स्नीर्नचेत्तत्प्रतिमा इमा वा कथं कथं तानि च वामनानि ॥
Metre: उपजातिः

Verse 58
इत्युक्तिशेषे स वधूं बभाषे सूक्तिश्रुतासक्तिनिबद्धमौनाम् । मुखाभ्यसूयानुशयादिवेन्दौ केयं तव प्रेयसि मूकमुद्रा ॥
Metre: उपजातिः

Verse 59
शृङ्गारभृङ्गारसुधाकरेण वर्णस्रजानूपय कर्णकूपौ । त्वच्चारुवाणीरसवेणितीरं तृणानुकारः खलु कोषकारः ॥
Metre: उपजातिः

Showing 2721 to 2730 of 2826 verses