चतुर्दिगन्तीं परिपूरयन्ती ज्योत्स्नैव कृत्स्ना सुरसिन्धुबन्धुः । क्षीरोदपूरोदरवासहार्दवैरस्यमेतस्य निरस्यतीयम् ॥
Metre: उपजातिः
पुत्री विधोस्ताण्डविकास्तु सिन्धोरश्या चकोरस्य दृशोर्वयस्या । तथापि सेयं कुमुदस्य कापि ब्रवीति नामैव हि कौमुदीति ॥
Metre: उपजातिः
ज्योत्स्नापयःक्ष्मातटवास्तुवस्तुच्छायाछलच्छिद्रधरा धरायाम् । शुभ्रांशुशुभ्रांशकराः कलङ्कनीलप्रभामिश्रविभा विभान्ति ॥
Metre: इन्द्रवज्रा
कियान्यथानेन वियद्विभागस्तमोनिरासाद्विशदीकृतोयम् । अद्भिस्तथा लावणसैन्धवीभिरुल्लासिताभिः शितिरप्यकारि ॥
Metre: उपजातिः
गुणौ पयोधेर्निजकारणस्य न हानिवृद्धी कथमेतु चन्द्रः । चिरेण सोऽयं भजते तु यत्ते न नित्यमम्भोधिरिवात्र चित्रम् ॥
Metre: उपेन्द्रवज्रा
आदर्शदृश्यत्वमपि श्रितोऽयमादर्शदृश्यां न बिभर्ति मूर्तिम् । त्रिनेत्रभूरप्ययमत्रिनेत्रादुत्पादमासादयति स्म चित्रम् ॥
Metre: उपजातिः
इज्येव देवव्रजभोज्यऋद्धिः शुद्धा सुधादीधितिमण्डलीयम् । हिंसां यथा सैव तथाङ्गमेषा कलङ्कमेकं मलिनं बिभर्ति ॥
Metre: उपजातिः
एकः पिपासुः प्रवहानिलस्य च्युतो रथाद्वाहनरङ्कुरेषः । अस्त्यम्बरेऽनम्बुनि लेलिहास्यः पिबन्नमुष्यामृतबिन्दुवृन्दम् ॥
Metre: उपजातिः
अस्मिञ्शिशौ न स्थित एव रङ्कुर्यूनि प्रियाभिर्विहितोपदायम् । आरण्यसंदेश इवौषधीभिरङ्के स शङ्के विधुना न्यधायि ॥
Metre: इन्द्रवज्रा
अस्यैव सेवार्थमुपागतानामास्वादयन्पल्लवमोषधीनाम् । धयन्नमुष्यैव सुधाजलानि सुखं वसत्येष कलङ्करङ्कुः ॥
Metre: उपजातिः