अत्रैव वाणीमधुना तवापि श्रोतुं समीहे मधुनः सनाभिम् । इति प्रियप्रेरितया तयाथ प्रस्तोतुमारम्भि शशिप्रशस्तिः ॥
Metre: उपजातिः
पूरं विधुर्वर्धयितुं पयोधेः शङ्केऽयमेणाङ्कमणिं कियन्ति । पयांसि दोग्धि प्रियविप्रयोगसशोककोकीनयने कियन्ति ॥
Metre: उपजातिः
ज्योत्स्नामयं रात्रिकलिन्दकन्यापूरानुकारेऽपसृतेऽन्धकारे । परिस्फुरन्निर्मलदीप्तिदीपं व्यक्तायते सैकतमन्तरीपम् ॥
Metre: उपजातिः
हासत्विषैवाखिलकैरवाणां विश्वं विशङ्केऽजनि दुघ्दमुग्धम् । यतो दिवा बद्धमुखेषु तेषु स्थितेऽपि चन्द्रे न तथा चकास्ति ॥
Metre: उपजातिः
मृत्युंजयस्यैष वसञ्जटायां न क्षीयते तद्भयदूरमृत्युः । न वर्धते च स्वसुधाप्तजीवस्रग्मुण्डराहूद्भवभीरतीव ॥
Metre: उपजातिः
त्विषं चकोराय सुधां सुराय कलामपि स्वावयवं हराय । ददज्जयत्येष समस्तमस्य कल्पद्रुमभ्रातुरथाल्पमेतत् ॥
Metre: उपजातिः
अङ्केणनाभेर्विषकृष्णकण्ठः सुधाप्तशुद्धः कटभस्मपाण्डुः । अर्हन्नपीन्दोर्निजमौलिधानान्मृडः कलामर्हति षोडशीं न ॥
Metre: उपजातिः
पुष्पायुधस्यास्थिभिरर्धदग्धैः सितासितश्रीरघटि द्विजेन्द्रः । स्मरारिणा मूर्धनि यद्धृतोऽपि तनोति तत्तौष्टिकपौष्टिकानि ॥
Metre: उपजातिः
मृगस्य लोभात्खलु सिंहिकायाः सूनुर्मृगाङ्कं कवलीकरोति । स्वस्यापि दानादमुमङ्कसुप्तं नोज्झन्मुदा तेन च मुच्यतेऽयम् ॥
Metre: उपजातिः
सुधाभुजो यत्परिपीय तुच्छमेतं वितन्वन्ति तदर्हमेव । पुरा निपीयास्य पितापि सिन्धुरकारि तुच्छः कलशोद्भवेन ॥
Metre: उपजातिः