नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 2711 to 2720 of 2826 verses
Verse 39
दिने मम द्वेषिणि कीदृगेषां प्रचार इत्याकलनाय चारीः । छाया विधाय प्रतिवस्तुलग्नाः प्रावेशयत्प्रष्टुमिवान्धकारः ॥
Metre: उपजातिः

Verse 40
ध्वान्तस्य तेन क्रियमाणयेत्थं द्विषाः शशी वर्णनयाऽथ रुष्टः । उद्यन्नुपाश्लोकि जपारुणश्रीर्नराधिपेनानुनयेच्छयेव ॥
Metre: उपजातिः

Verse 41
पश्यन्वृतोऽप्येष निमेषमद्रेरधित्यकाभूमितिरस्करिण्या । प्रवर्षति प्रेयसि चन्द्रिकामिश्चकोरचञ्चूचुलुकप्रमिन्दुः ॥
Metre: उपजातिः

Verse 42
ध्वान्ते द्रुमान्तानभिसारिकास्त्वं शङ्कस्व सङ्केतनिकेतमाप्ताः । छायाच्छलादुज्झितनीलचेला ज्योत्स्नानुकूलैश्चरिता दुकूलैः ॥
Metre: इन्द्रवज्रा

Verse 43
त्वदास्यलक्ष्मीमुकुरं चकोरैः स्वकौमुदीमादयमानमिन्दुम् । दृशा निशेन्दीवरचारुभासा पिबोरु रम्भातरुपीवरोरु ॥
Metre: उपेन्द्रवज्रा

Verse 44
असंशयं सागरभागुदस्थात्पृथ्वीधरादेव मथः पुरायम् । अमुष्य यस्मादधुनापि सिन्धौ स्थितस्य शैलादुदयं प्रतीमः ॥
Metre: उपजातिः

Verse 45
निजानुजेनातिथितामुपेतः प्राचीपतेर्वाहनवारणेन । सिन्दूरसान्द्रे किमकारि मूर्ध्नि तेनारुणश्रीरयमुज्जिहीते ॥
Metre: उपजातिः

Verse 46
यत्प्रीतिमद्भिर्वदनैः स्वसाम्यादचुम्बि नाकाधिपनायिकानाम् । ततस्तदीयाधरयावयोगादुदेति बिम्बारुणबिम्ब एषः ॥
Metre: उपजातिः

Verse 47
विलोमिताङ्कोत्किरणाद्दुरूहदृगादिना दृश्यविलोचनादि । विधिर्विधत्ते विधुना वधूनां किमाननं काञ्चनसञ्चकेन ॥
Metre: उपेन्द्रवज्रा

Verse 48
( अनेन वेधा विपरीतरूपविनिर्मिताङ्कोत्किरणाङ्गकेन । त्वदाननं दृश्यदृगाद्यलक्ष्यदृगादिनैवाकृत सञ्चकेन ॥
Metre: उपेन्द्रवज्रा

Showing 2711 to 2720 of 2826 verses