नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 2701 to 2710 of 2826 verses
Verse 29
पक्वं महाकालफलं किलासीत्प्रत्यग्गिरेः सानुनि भानुबिम्बम् । भिन्नस्य तस्यैव दृषन्निपाताद्बीजानि जानामितमां तमांसि ॥
Metre: इन्द्रवज्रा

Verse 30
पत्युर्गिरीणामयशः सुमेरुप्रदक्षिणाद्भास्वदनादृतस्य । दिशस्तमश्चैत्ररथान्यनामपत्रच्छटाया मृगनाभिशेभि ॥
Metre: उपजातिः

Verse 31
ऊर्ध्वं धृतं व्योम सहस्ररश्मेर्दिवा सहस्रेण करैरिवासीत् । पतत्तदेवांशुमता विनेदं नेदिष्ठतामेति कुतस्तमिस्रम् ॥
Metre: उपजातिः

Verse 32
ऊर्ध्वार्पितन्युब्जकटाहकल्पे यद्व्योम्नि दीपेन दिनाधिपेन । न्यधायि तद्भूममिलद्गुरुत्वं भूमौ तमः कज्जलमस्खलत्किम् ॥
Metre: उपजातिः

Verse 33
ध्वान्तैणनाभ्या शितिनाम्बरेण दिशः शरैः सूनशरस्य तारैः । मन्दाक्षलक्ष्या निशि मामनिन्दौ सेर्ष्या भवायान्त्यभिसारिकाभाः ॥
Metre: उपजातिः

Verse 34
भास्वन्मयीं मीलयतो दृशं द्राङ्मिथोमिलद्व्यञ्चलमादिपुंसः । आचक्ष्महे तन्वि तमांसि पक्ष्म श्यामत्वलक्ष्मीविजितेन्दुलक्ष्म ॥
Metre: उपजातिः

Verse 35
विवस्वतानायिषतेव मिश्राः स्वगोसहस्रेण समं जनानाम् । गावोऽपि नेत्रापरनामधेयास्तेनेदमान्ध्यं खलु नान्धकारैः ॥
Metre: उपजातिः

Verse 36
ध्वान्तस्य वामोरु विचारणायां वैशेषिकं चारु मतं मतं मे । औलूकमाहुः खलु दर्शनं तत्क्षमं तमस्तत्त्वनिरूपणाय ॥
Metre: उपजातिः

Verse 37
म्लानिस्पृशः स्पर्शनिषेधभूमेः सेयं त्रिशङ्कोरिव संपदस्य । न किंचिदन्यत्प्रति कौशिकीये दृशौ विहाय प्रियमातनोति ॥
Metre: उपजातिः

Verse 38
मूर्धाभिषिक्तः खलु यो ग्रहाणां तद्भासमास्कन्दत ऋक्षशोभम् । दिवान्धकारं स्फुटलब्धरूपमालोकतालोकमुलूकलोकः ॥
Metre: उपजातिः

Showing 2701 to 2710 of 2826 verses