नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 2761 to 2770 of 2826 verses
Verse 90
नेत्रारविन्दत्वमगान्मृगाङ्कः पुरा पुराणस्य यदेष पुंसः । अस्याङ्क एवायमगात्तदानीं कनीनिकेन्दिन्दिरसुन्दरत्वम् ॥
Metre: उपजातिः

Verse 91
देवेन तेनैष च काश्यपिश्च साम्यं समीक्ष्योभयपक्षभाजौ । द्विजाधिराजौ हरिणाश्रितौ च युक्तं नियुक्तौ नयनक्रियायाम् ॥
Metre: उपजातिः

Verse 92
यैरन्वमायि ज्वलनस्तुषारे सरोजिनीदाहविकारहेतोः । तदीयधूमौघतया हिमांशौ शङ्के कलङ्कोऽपि समर्थितस्तैः ॥
Metre: उपजातिः

Verse 93
स्वेदस्य धाराभिरिवापगाभिर्व्याप्ता जगद्भारपरिश्रमार्ता । छायापदेशाद्वसुधा निमज्ज्य सुधाम्बुधावुज्झति खेदमत्र ॥
Metre: उपजातिः

Verse 94
ममानुमैवं बहुकालनीलीनिपातनीलः खलु हेमशैलः । इन्दोर्जगच्छायमये प्रतीके पीतोऽपि भागः प्रतिबिम्बितः स्यात् ॥
Metre: उपजातिः

Verse 95
मावापदुन्निद्रसरोजपूजा श्रियं शशी पद्मनिमीलितेजाः । अक्षिद्वयेनैव निजाङ्करङ्कोरलंकृतस्तामयमेति मन्ये ॥
Metre: उपजातिः

Verse 96
य एष जागर्ति शशः शशाङ्के बुधो विधत्ते क इवात्र चित्रम् । अन्तः किलैतत्पितुरम्बुराशेरासीत्तुरङ्गोऽपि मतङ्गजोऽपि ॥
Metre: उपजातिः

Verse 97
गौरे प्रिये भातितमां तमिस्रा ज्यौत्स्नी च नीले दयिता यदस्मिन् । शोभाप्तिलोभादुभयोस्तयोर्वा सितासितां मूर्तिमयं बिभर्ति ॥
Metre: उपजातिः

Verse 98
वर्षातपानावरणं चिराय काष्ठौघमालम्ब्य समुत्थितेषु । बालेषु ताराकवकेष्विहैकं विकस्वरीभूतमवैमि चन्द्रम् ॥
Metre: उपजातिः

Verse 99
दिनावसाने तरणेरकस्मान्निमज्जनाद्विश्वविलोचनानि । अस्य प्रसादादुडुपस्य नक्तं तमोविपद्द्वीपवतीं तरन्ति ॥
Metre: उपजातिः

Showing 2761 to 2770 of 2826 verses