भीमात्मजापि कृतदैवतभक्तिपूजा पत्यौ च भुक्तवति भुक्तवती ततोऽनु । तस्याङ्कमङ्कुरिततत्परिरिप्समध्यमध्यास्त भूषणभरातिभरालसाङ्गी ॥
Metre: वसन्ततिलका
तामन्वगादशितबिम्बविपाकचञ्चोः स्पष्टं शलाटुपरिणत्युचितच्छदस्य । कीरस्य कापि करवारिरुहे वहन्ती सौन्दर्यपुञ्जमिव पञ्जरमेकमाली ॥
Metre: वसन्ततिलका
कूजायुजा बहुलपक्षशितिम्नि सीम्ना स्पष्टं कुहूपदपदार्थमिथोऽन्वयेन । तिर्यग्धृतस्फटिकदण्डकवर्तिनैका तामन्ववर्तत पिकेन मदाधिकेन ॥
Metre: वसन्ततिलका
शिष्याः कलाविधिषु भीमभुवो वयस्या वीणामृदुक्वणनकर्मणि याः प्रवीणाः । आसीनमेनमुपवीणयितुं ययुस्ता गन्धर्वराजतनुजा मनुजाधिराजम् ॥
Metre: वसन्ततिलका
तासामभासत कुरङ्गदृशां विपञ्ची किंचित्पुरः कलितनिष्कलकाकलीका । भैमीतथामधुरकण्ठलतोपकण्ठे शब्दायितुं प्रथममप्रतिभावतीव ॥
Metre: वसन्ततिलका
सा यद्धृताखिलकलागुणभूमभूमीभैमीतुलाधिगतये स्वरसंगतासीत् । तं प्रागसावविनयं परिवादमेत्य लोकेऽधुनापि विदिता परिवादिनीति ॥
Metre: वसन्ततिलका
नादं निषादमधुरं ततमुज्जगार साभ्यासभागवनिभृत्कुलकुञ्जरस्य । स्तम्बेरमीव कृतसश्रुतिमूर्धकम्पा वीणा विचित्रकरचापलमाभजन्ती ॥
Metre: वसन्ततिलका
आकृष्य सारमखिलं किमु वल्लकीनां तस्या मृदुस्वरमसर्जि न कण्ठनालम् । तेनान्तरं तरलभावमवाप्य वीणा ह्रीणा न कोणममुचत्किमु वालयेषु ॥
Metre: वसन्ततिलका
तद्दम्पतिश्रुतिमधून्यथ चाटुगाथा वीणास्तथा जगुरतिस्फुटवर्णबन्धम् । इत्थं यथा वसुमतीरतिगृह्यकस्ताः कीरः किरन्मुदमुदीरयति स्म विश्वाः ॥
Metre: वसन्ततिलका
अस्माकमुक्तिभिरवैष्यथ एव बुद्धेर्गाधं युवामतिमती स्तुमहे तथापि । ज्ञानं हि वागवसरावचनाद्भवद्भ्यामेतावदप्यनवधारितमेव न स्यात् ॥
Metre: वसन्ततिलका