लीलयापि तव नाम जना ये गृह्णते नरकनाशकरस्य । तेभ्य एव नरकैरुचिता भीस्ते तु बिभ्यतु कथं नरकेभ्यः ॥
Metre: स्वागता
मृत्युहेतुषु न वज्रनिपाताद्भीतिमर्हति जनस्त्वयि भक्तः । यत्तदोच्चरति वैष्णवकण्ठान्निष्प्रयत्नमपि नाम तव द्राक् ॥
Metre: स्वागता
सर्वथापि शुचिनि क्रियमाणे मन्दिरोदर इवावकरा ये । उद्भवन्ति भविनां हृदि तेषां शोधनी भवदनुस्मृतिधारा ॥
Metre: स्वागता
अस्मदाद्यविषयेऽपि विशेषे रामनाम तव धाम गुणानाम् । अन्वबन्धि भवतैव तु कस्मादन्यथा ननु जनुस्त्रितयेऽपि ॥
Metre: स्वागता
भक्तिभाजमनुगृह्य दृशा मां भास्करेण कुरु वीततमस्कम् । अर्पितेन मम नाथ न तापं लोचनेन विधुना विधुनासि ॥
Metre: स्वागता
लङ्घयन्नहरहर्भवदाज्ञामस्मि हा विधिनिषेधमयीं यः । दुर्लभं स तपसापि गिरैव त्वत्प्रसादमहमिच्छुरलज्जः ॥
Metre: स्वागता
विश्वरूप कृतविश्व कियत्ते वैभवाद्भुतमणौ हृदि कुर्वे । हेम नह्यति कियन्निजचीरे काञ्चनाद्रिमधिगत्य दरिद्रः ॥
Metre: स्वागता
इत्युदीर्य स हरिं प्रति संप्रज्ञातवासिततमः समपादि । भावनाबलविलोकितविष्णौ प्रीतिभक्तिसदृशानि चरिष्णुः ॥
Metre: स्वागता
विप्रपाणिषु भृशं वसुवर्षी पात्रसात्कृतपितृक्रतुकव्यः । श्रेयसा हरिहरं परिपूज्य प्रह्व एष शरणं प्रविवेश ॥
Metre: स्वागता
माध्यंदिनादनु विधेर्वसुधाषुधांशुरास्वादितामृतमयौदनमोदमानः । प्राञ्चं स चित्रमविदूरितवैजयन्तं वेश्माचलं निजरुचीभिरलंचकार ॥
Metre: वसन्ततिलका