भूभृद्भवाङ्कभुवि राजशिखामणेः सा त्वं चास्य भोगसुभगस्य समः क्रमोऽयम् । यन्नाकपालकलनाकलितस्य भर्तुरत्रापि जन्मनि सती भवती स भेदः ॥
Metre: वसन्ततिलका
एषा रतिः स्फुरति चेतसि कस्य यस्याः सूते रतिं द्युतिरथ त्वयि वा तनोति । त्रैयक्षवीक्षणखिलीकृतनिर्जरत्वसिद्धायुरध्वमकरध्वजसंशयं कः ॥
Metre: वसन्ततिलका
एतां धरामिव सरिच्छविहारिहारामुल्लासितस्वमिदमाननचन्द्रभासा । बिभ्रद्विभासि पयसामिव राशिरन्तर्वेदिश्रियं जनमनः प्रियमध्यदेशाम् ॥
Metre: वसन्ततिलका
दत्ते जयं जनितपत्त्रनिवेशनेयं साक्षीकृतेन्दुवदना मदनाय तन्वी । मध्यस्थदुर्बलतमत्वफलं किमेतद्भुक्तिर्यदत्र तव भर्त्सितमत्स्यकेतोः ॥
Metre: वसन्ततिलका
चेतोभवस्य भवती कुचपत्त्रराजधानीयकेतुमकरा ननु राजधानी । अस्यां महोदयमहस्पृशिमीनकेतो के तोरणं तरुणि न ब्रुवते भ्रुवौ ते ॥
Metre: वसन्ततिलका
अस्या भवन्तमनिशं भवतस्तथैनां कामः श्रमं न कथमृच्छति नाम गच्छन् । छायैव वामथ गतागतमाचरिष्णोस्तस्याध्वजश्रमहरा मकरध्वजस्य ॥
Metre: वसन्ततिलका
स्वेदाप्लवप्रणयिनी नवरोमराजी रत्यै यदाचरति जागरितव्रतानि । आभासितेन नरनाथ मधूत्थसान्द्रमग्नासमेषुशरकेशरदन्तुराङ्गः ॥
Metre: वसन्ततिलका
प्राप्ता तवापि नृप जीवितदेवतेयं घर्माम्बुशीकरकरम्बनमम्बुजाक्षी । ते ते यथा रतिपतेः कुसुमानि बाणाः स्वेदस्तथैव किमु तस्य शरक्षतास्रम् ॥
Metre: वसन्ततिलका
रागं प्रतीत्य युवयोस्तमिमं प्रतीची भानुश्च किं द्वयमजायत रक्तमेतत् । तद्वीक्ष्य वां किमिह केलिसरित्सरोजैः कामेषुतोचितमुखत्वमधीयमानम् ॥
Metre: वसन्ततिलका
अन्योन्यरागवशयोर्युवयोर्विलासस्वच्छन्दताच्छिदपयातु तदालिवर्गः । अत्याजयन्सिचयमाजिमकारयन्वा दन्तैर्नखैश्च मदनो मदनः कथं स्यात् ॥
Metre: वसन्ततिलका