इति पठति शुके मृषा ययुस्ता बहु नृपकृत्यमवेत्य सांधिवेलम् । कुपितनिजसखीदृशार्धदृष्टाः कमलतयेव तदा निकोचवत्यः ॥
Metre: पुष्पिताग्रा
अकृत परभृतः स्तुहिस्तुहीति श्रुतवचनस्रगनूक्तिचुञ्चुचञ्चुः । पठितनलनुतिं प्रतीव कीरं तमिव नृपं प्रति जातनेत्ररागः ॥
Metre: पुष्पिताग्रा
तुङ्गप्रासादवासादथ भृशकृशतामायतीं केलिकुल्यामद्राक्षोदर्कबिम्बप्रतिकृतिमणिना भीमजा राजमानाम् । वक्रं वक्रं व्रजन्तीं फणियुवतिरिति त्रस्नुभिर्व्यक्तमुक्तान्योन्यं विद्रुत्य तीरे रथपदमिथुनैः सूचितामर्तिरुत्या ॥
Metre: स्रग्धरा
अथ रथचरणौ विलोक्य रक्तावतिविरहासहताहताविवास्रैः । अपि तमकृत पद्मसुप्तिकालं श्वसनविकीर्णसरोजसौरभं सा ॥
Metre: पुष्पिताग्रा
अभिलपति पतिं प्रति स्म भैमी सदय विलोकय कोकयोरवस्थाम् । मम हृदयमिमौ च भिन्दतीं हा क इव विलोक्य नरो न रोदितीमाम् ॥
Metre: पुष्पिताग्रा
कुमुदमुदमुदेष्यतीमसोढा रविरविलम्बितुकामतामतानीत् । प्रतितरु विरुवन्ति किं शकुन्ताः स्वहृदि निवेशितकोककाकुकुन्ताः ॥
Metre: पुष्पिताग्रा
अपि विरहमनिष्टमाचरन्तावधिगमपूर्वकपूर्वसर्वचेष्टौ । इदमहह निदर्शनं विहंगौ विधिवशचेतनचेष्टनानुमाने ॥
Metre: पुष्पिताग्रा
अङ्घ्रिस्थारुणिमेष्टकाविसरणैः शोणे कृपाणः स्फुटं कालोऽयं विधिना रथाङ्गमिथुनं विच्छेत्तुमन्विच्छता । रश्मिग्राहिगरुत्मदग्रजसमारब्धाविरामभ्रमौ दण्डभ्राजिनि भानुशाणवलये संसज्य किं निज्यते ॥
Metre: शार्दूलविक्रीडितम्
इति स विधुमुखीमुखेन मुग्धालपितसुधासवमर्पितं निपीय । स्मितशबलवलन्मुखोऽवदत्तां स्फुटमिदमीदृशमीदृशं यथात्थ ॥
Metre: पुष्पिताग्रा
स्त्रीपुंसौ प्रविभज्य जेतुमखिलावालोचितौचित्ययोर्नम्रां वेद्मि रतिप्रसूनशरयोश्चापद्वयीं त्वद्भ्रुवौ । त्वन्नासाच्छलनिह्नुतां द्विनलिकीं नालीकमुक्त्येषिणोस्त्वन्निश्वासलते मधुश्वसनजं वायव्यमस्त्रं तयोः ॥
Metre: शार्दूलविक्रीडितम्