भूमवत्कलयता युधि कालं म्लेच्छकल्पशिखिनां करवालम् । कल्किना दशतयं मम कल्कं त्वं व्युदस्य दशमावतरेण ॥
Metre: स्वागता
देहिनेव यशसा भ्रमतोर्व्यां पाण्डुरेण रणरेणुभिरुच्चैः । विष्णुना जनयितुर्भवताभून्नाम विष्णुयशसश्च सदर्थम् ॥
Metre: स्वागता
सन्तमद्वयमयेऽध्वनि दत्तात्रेयमर्जुनयशोर्जनबीजम् । नौमि योगजयितानघसंज्ञं त्वामलर्कभवमोहतमोर्कम् ॥
Metre: स्वागता
भानुसूनुमनुगृह्य जय त्वं राममूर्तिहतवृत्रहपुत्रः । इन्द्रनन्दनसपक्षमपि त्वां नौमि कृष्ण निहतार्कतनूजम् ॥
Metre: स्वागता
वामनादणुतमादनुजीयास्त्वं त्रिविक्रमतनूभृतदिक्कः । वीतहिंसनकथादथ बुद्धात्कल्किना हतसमस्त नमस्ते ॥
Metre: स्वागता
मां त्रिविक्रम पुनीहि पदे ते किं लगन्नजनि राहुरुपानत् । किं प्रदक्षिणनकृद्भ्रमिपाशं जाम्बवानदित ते बलिबन्धे ॥
Metre: स्वागता
अर्धचक्रवपुषार्जुनबाहून्योऽलुनात्परशुनाथ सहस्रम् । तेन किं सकलचक्रविलूने बाणबाहुनिचयेऽञ्चति चिक्रम् ॥
Metre: स्वागता
पाञ्चजन्यमधिगत्य करेणापाञ्चजन्यमसुरानिति वक्षि । चेतनाः स्थ किल पश्यत किं नाचेतनोऽपि मयि मुक्तविरोधः ॥
Metre: स्वागता
तावकोरसि लसद्वनमाले श्रीफलद्विफलशाखिकयेव । स्थीयते कमलया त्वदजस्रस्पर्शकण्टकितयोत्कुचया च ॥
Metre: स्वागता
त्यज्यते न जलजेन करस्ते शिक्षितुं सुभगभूयमिवोच्चैः । आननं च नयनायितबिम्बः सेवते कुमुदहासकरांशुः ॥
Metre: स्वागता