ये हिरण्यकशिपुं रिपुमुच्चै रावणं च कुरुवीरचयं च । हन्त हन्तुमभवंस्तव योगास्ते नरस्य च हरेश्च जयन्ति ॥
Metre: स्वागता
केयमर्धभवता भवतोहे मायिना ननु भवः सकलस्त्वम् । शेषतामपि भजन्तमशेषं वेद वेदनयनो हि जनस्त्वाम् ॥
Metre: स्वागता
प्राग्भवैरुदगुदग्भवगुम्फान्मुक्तियुक्तिविहताविह तावत् । नापरः स्फुरति कस्यचनापि त्वत्समाधिमवधूय समाधिः ॥
Metre: स्वागता
ऊर्ध्वदिक्कदलनां द्विरकार्षीः किं तनुं हरिहरीभवनाय । किं च तिर्यगभिनो नृहरित्वे कः स्वतन्त्रमनु नन्वनुयोगः ॥
Metre: स्वागता
आप्तकाम सृजसि त्रिजगत्किं किं भिनत्सि यदि निर्मितमेव । पासि चेदमवतीर्य मुहुः किं स्वात्मनापि यदवश्यविनाश्यम् ॥
Metre: स्वागता
जाह्नवीजलजकौस्तुभचन्द्रान्पादपाणिहृदयेक्षणवृत्तीन् । उत्थिताब्धिसलिलात्त्वयि लोला श्रीःस्थिता परिचितान्परिचिन्त्य ॥
Metre: स्वागता
वस्तु वास्तु घटते न भिदानां यौक्तनैकविधबाधविरोधैः । तत्त्वदीहितविजृम्भिततत्तद्भेदमेतदिति तत्वनिरुक्तिः ॥
Metre: स्वागता
वस्तु विश्वमुदरे तव दृष्ट्वा बाह्यवत्किल मृकण्डुतनूजः । स्वं विमिश्रमुभयं न विविञ्चन्निर्ययौ स कतमस्त्वमवैषि ॥
Metre: स्वागता
ब्रह्मणोऽस्तु तव शक्तिलतायां मूर्ध्नि विश्वमथ पत्युरहीनाम् । बालतां कलयतो जठरे वा सर्वथासि जगतामवलम्बः ॥
Metre: स्वागता
धर्मबीजसलिला सरिदङ्घ्रावर्थमूलमुरसि स्फुरति श्रीः । कामदैवतमपि प्रसवस्ते ब्रह्म मुक्तिदमसि स्वयमेव ॥
Metre: स्वागता