नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Disable Parallel


Showing 2571 to 2580 of 2826 verses
Verse 62
स्वेन पूर्यत इयं सकलाशा भो बले न मम किं भवतेति । त्वं बटुः कपटवाचि पटीयान्देहि वामन मनःप्रमदं नः ॥
Metre: स्वागता

Verse 63
दानवारिरसिकायविभूतेर्वश्मि तेऽस्मि सुतरां प्रतिपत्तिम् । इत्युदग्रपुलकं बलिनोक्तं त्वां नमामि कृतवामनमायम् ॥
Metre: स्वागता

Verse 64
भोगिभिः क्षितितले दिवि वासं बन्धमेष्यसि चिरं ध्रियमाणः । पाणिरेष भुवनं वितरेति छद्मवाग्भिरव वामन विश्वम् ॥
Metre: स्वागता

Verse 65
आशयस्य विवृतिः क्रियते किं दित्सुरस्मि हि भवच्चरणेभ्यः । विश्वमित्यभिहितो बलिनास्मान्वामन प्रणतपावन पायाः ॥
Metre: स्वागता

Verse 66
क्षत्त्रजातिरुदियाय भुजाभ्यां या तवैव भुवनं सृजतः प्राक् । जामदग्न्यवपुषस्तव तस्यास्तौ लयार्थमुचितौ विजयेताम् ॥
Metre: स्वागता

Verse 67
पांसुला बहुपतिर्नियतं या वेधसारचि रुषा नवखण्डा । तां भुवं कृतवतो द्विजभुक्तां युक्तकारितरता तव जीयात् ॥
Metre: स्वागता

Verse 68
कार्तवीर्यभिदुरेण दशास्ये रैणुकेय भवता सुखनाश्ये । कालभेदविरहादसमाधिं नौमि रामपुनरुक्तिमहं ते ॥
Metre: स्वागता

Verse 69
हस्तलेखमसृजत्खलु जन्मस्थानरेणुकमसौ भवदर्थम् । राम राममधरीकृततत्तल्लेखकः प्रथममेव विधाता ॥
Metre: स्वागता

Verse 70
उद्भवाजतनुजादज कामं विश्वभूषण न दूषणमत्र । दूषणप्रशमनाय समर्थं येन देव तव वैभवमेव ॥
Metre: स्वागता

Verse 71
नो ददासि यदि तत्त्वधियं मे यच्छ मोहमपि तं रघुवीर । येन रावणचमूर्युधि मूढा त्वन्मयं जगदपश्यदशेषम् ॥
Metre: स्वागता

Showing 2571 to 2580 of 2826 verses