इत्यवेत्य वसुना बहुनापि प्राप्नुवन्न मुदमर्चनया सः । सूक्तिमौक्तिकमयैरथ हारैर्भक्तिमैहत हरेरुपहारैः ॥
Metre: स्वागता
दूरतः स्तुतिरवाग्विषयस्ते रूपमस्मदभिधा तव निन्दा । तत्क्षमस्व यदहं प्रलपामीत्युक्तिपूर्वमयमेतदवोचत् ॥
Metre: स्वागता
स्वप्रकाश जड एष जनस्ते वर्णनं यदभिलष्यति कर्तुम् । नन्वहर्पतिमहः प्रति स स्यान्न प्रकाशनरसस्तमसः किम् ॥
Metre: स्वागता
मैव वाङ्मनसयोर्विषयो भूस्त्वां पुनर्न कथमुद्दिशतां ते । उत्कचातकयुगस्य घनः स्यात्तृप्तये घनमनाप्नुवतोऽपि ॥
Metre: स्वागता
छद्ममत्स्यवपुषस्तव पुच्छास्फालनाज्जलमिवोद्धतमब्धेः । श्वैत्यमेत्य गगनाङ्गणसङ्गादाविरस्ति विबुधालयगङ्गा ॥
Metre: स्वागता
भूरिसृष्टिधृतभूवलयानां पृष्ठसीमनि किणैरिव चक्रैः । चुम्बितावतु जगत्सितिरक्षाकर्मठस्य कमठस्तव मूर्तिः ॥
Metre: स्वागता
दिक्षु यत्खुरचतुष्टयमुद्रामभ्यवैमि चतुरोऽपि समुद्रान् । तस्य पोत्रिवपुषास्तव दंष्ट्रा तुष्टयेऽस्तु मम वाऽस्तु जगत्याः ॥
Metre: स्वागता
उद्धृतिस्खलदिलापरिरम्भाल्लोमभिर्बहिरितैर्बहुहृष्टैः । ब्राह्ममण्डमभवद्वलिनीपं केलिकोल तव तत्र न मातः ॥
Metre: स्वागता
दानवाद्यगहनप्रभवस्त्वं सिंह मामव रवैर्घनघोरैः । वैरिदारिदिविषत्सुकृतास्त्रग्रामसंभवभवन्मनुजार्धः ॥
Metre: स्वागता
दैत्यभर्तुरुदरान्धुनिविष्टां शक्रसंपदमिवोद्धरतस्ते । पातु पाणिशृणिपञ्चकमस्माञ्छिन्नरज्जुनिभलग्नतदन्त्रम् ॥
Metre: स्वागता