नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Disable Parallel


Showing 2551 to 2560 of 2826 verses
Verse 42
उत्तमं स महति स्म महीभृत्पूरुषं पुरुषसूक्तविधानैः । द्वादशापि च स केशवमूर्तीर्द्वादशाक्षरमुदीर्य ववन्दे ॥
Metre: स्वागता

Verse 43
मल्लिकाकुसुमदुण्डुभकेन स भ्रमीवलयितेन कृते तम् । आसने निहितमैक्षत साक्षात्कुण्डलीन्द्रतनुकुण्डलभाजम् ॥
Metre: स्वागता

Verse 44
मेचकोत्पलमयी बलिबन्द्धुस्तद्वलिस्रगुरसि स्फुरति स्म । कौस्तुभाख्यमणिकुट्टिमवास्तुश्रीकटाक्षविकटायितकोटिः ॥
Metre: स्वागता

Verse 45
स्वर्णकेतकशतानि स हेम्नः पुण्डरीकघटनां रजतस्य । मालयारुणमणेः करवीरं तस्य मूर्ध्नि पुनरुक्तमकार्षीत् ॥
Metre: स्वागता

Verse 46
नाल्पभक्तबलिरन्ननिवेद्यैस्तस्य हारिणमदेन स कृष्णः । शङ्खचक्रजलजातवदर्चः शङ्खचक्रजलपूजनयाभूत् ॥
Metre: स्वागता

Verse 47
राज्ञि कृष्णलघुधूपनधूमाः पूजयत्यहिरिपुध्वजमस्मिन् । निर्ययुर्भवधृता भुजगा भीदुर्यशोमलिनिता इव जालैः ॥
Metre: स्वागता

Verse 48
अर्घनिःस्वमणिमाल्यविमिश्रैः स्मेरजातिमयदामसहस्रैः । तं पिधाय विदधे बहुरत्नक्षीरनीरनिधिमग्नमिवैषः ॥
Metre: स्वागता

Verse 49
अक्षसूत्रगतपुष्करबीजश्रेणिरस्य करसंकरमेत्य । शौरिमुक्तजपितुः पुनरापत्पद्मसद्मचिरवासविलासम् ॥
Metre: स्वागता

Verse 50
कैटभारिपदयोर्नितमूर्ध्ना सञ्जिता विचकिलस्रगनेन । जह्नुजेव भुवनप्रभुणाऽभात्सेवितानुनयतायतमाना ॥
Metre: स्वागता

Verse 51
स्वानुरागमनघः कमलायां सूचयन्नपि हृदि न्यसनेन । गौरवं व्यधित वागधिदेव्याः श्रीगृहोर्ध्वनिजकण्ठनिवेशात् ॥
Metre: स्वागता

Showing 2551 to 2560 of 2826 verses