आज्ञया च पितुरज्ञभिया च श्रीरहीयत महीप्रभवा द्विः । लङ्घितश्च भवता किमु नद्विर्वारिराशिरुदकाङ्कगलङ्कः ॥
Metre: स्वागता
कामदेवविशिखैः खलु नेशं मार्पयज्जनकजामिति रक्षः । दैवतादमरणे वरवाक्यं तथ्ययत्स्वमपुनाद्भवदस्त्रैः ॥
Metre: स्वागता
तद्यशो हसति कम्बुकदम्बं शम्बुकस्य न किमम्बुधिचुम्बि । नामशेषितससैन्यदशास्यादस्तमाप यदसौ तव हस्तात् ॥
Metre: स्वागता
मृत्युभीतिकरपुण्यजनेन्द्रत्रासदानजमुपाऋज्य यशस्तत् । ह्रीणवानसि कथं न विहाय क्षुद्रदुर्जनभिया निजदारान् ॥
Metre: स्वागता
इष्टदारविरहौर्वपयोधिस्त्वं शरण्य शरणं स ममैधि । लक्ष्मणक्षणवियोगकृशानौ यः स्वजीविततृणाहुतियज्वा ॥
Metre: स्वागता
क्रौञ्चदुःखमपि वीक्ष्य शुचा यः श्लोकमेकमसृजत्कविराद्यः । स त्वदुत्थकरुणः खलु काव्यं श्लोकसिन्धुमुचितं प्रबबन्ध ॥
Metre: स्वागता
विश्रवःपितृकयाप्तुमनर्हं सश्रवस्त्वमनयेत्युचितज्ञः । किं चकर्तिथ न शूर्पणखाया लक्ष्मणेन वपुषा श्रवसी वा ॥
Metre: स्वागता
ते हरन्तु दुरितव्रततिं मे यैः स कल्पविटपी तव दोर्भिः । छद्मयादवतनोरुदपाटि स्पर्धमान इव दानमदेन ॥
Metre: स्वागता
बालकेलिषु तदा यदलावीः कर्परीभिरभिहत्य तरङ्गान् । भाविबाणभुजभेदनलीलासूत्रपात्र इव पातु तदस्मान् ॥
Metre: स्वागता
कर्णशक्तिमफलां खलु कर्तुं सज्जितार्जुनरथाय नमस्ते । केतनेन कपिनोरसि शक्तिं लक्ष्मणं कृतवता हृतशल्यम् ॥
Metre: स्वागता