नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Disable Parallel


Showing 2591 to 2600 of 2826 verses
Verse 82
नापगेयमनयः सशरीरं द्यां वरेण नितरामपि भक्तम् । मा स भूत्सुरवधूसुरतज्ञो दिव्यपि व्रतविलोपभियेति ॥
Metre: स्वागता

Verse 83
घातितार्कसुतकर्णदयालुर्जैत्रितेन्दुकुलपार्थकृतार्थः । अर्धदुःखसुखमभ्यनयस्त्वं सास्रुभानुविहसद्विधुनेत्रः ॥
Metre: स्वागता

Verse 84
प्राणवत्प्रणयिराध न राधा पुत्रशत्रुसखिता सदृशी ते । श्रीप्रियस्य सदृगेव तवश्रीवत्समात्महृदि धर्तुमजस्रम् ॥
Metre: स्वागता

Verse 85
तावकापरतनोः सितकेशस्त्वं हली किल स एव च शेषः । साध्वसाववतरस्तव धत्ते तज्जरच्चिकुरनालविलासः ॥
Metre: स्वागता

Verse 86
हृद्यगन्धवहभोगवतीशः शेषरूपमपि बिभ्रदशेषः । भोगभूतिमदिरारुचिरश्रीरुल्लसत्कुमुदबन्धुरुचिस्त्वम् ॥
Metre: स्वागता

Verse 87
रेवतीशसुषमा किल नीलस्याम्बरस्य रुचिरा तनुभासा । कामपाल भवतः कुमुदाविर्भावभावितरुचेरुचितैव ॥
Metre: स्वागता

Verse 88
एकचित्तततिरद्वयवादिन्नत्रयीपरिचितोऽथ बुधस्त्वम् । पाहि मां विधुतकोटिचतुष्कः पञ्चबाणविजयी षडभिज्ञः ॥
Metre: स्वागता

Verse 89
तत्र मारजयिनि त्वयि साक्षात्कुर्वति क्षणिकतात्मनिषेधौ । पुष्पवृष्टिरपतत्सुरहस्तात्पुष्पशस्त्रशरसंततिरेव ॥
Metre: स्वागता

Verse 90
तावके हृदि निपात्य कृतेयं मन्मथेन दृढधैर्यतनुत्रे । कुण्ठनादतितमां कुसुमानां छत्त्रमित्त्रमुखतैव शराणाम् ॥
Metre: स्वागता

Verse 91
यत्तव स्तवविधौ विधिरास्ये चातुरीं चरति तच्चतुरास्यः । त्वय्यशेषविदि जाग्रति शर्वः सर्वविद्ब्रुवतया शितिकण्ठः ॥
Metre: स्वागता

Showing 2591 to 2600 of 2826 verses