शिशुपालवधम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शिशुपालवधम्

Enable Parallel


Showing 1431 to 1440 of 1644 verses
Verse 66
भिन्नानस्त्रैर्मोहभाजोऽभिजातान्हन्तुं लोलं वारयन्तः स्ववर्गम् । जीवग्राहं ग्राहयामासुरन्ये योग्येनार्थाः कस्य न स्याज्जनेन ॥
Metre: शालिनी

Verse 67
भग्नैर्दण्डैरातपत्राणि भूमौ पर्यस्तानि प्रौढचन्द्रद्युतीनि । आहाराय प्रेतराजस्य रौप्यस्थालानीव स्थापितानि स्म भान्ति ॥
Metre: शालिनी

Verse 68
रेजुर्भ्रष्टा वक्षसः कुङ्कुमाङ्का मुक्ताहाराः पार्थिवानां व्यसूनाम् । हासाल्लक्ष्याः पूर्णकामस्य मन्ये मृत्योर्दन्ताः पीतरक्तासवस्य ॥
Metre: शालिनी

Verse 69
निम्नेष्वोधीभूतमस्त्रक्षतानामस्रं भूमौ यच्चकासाञ्चकार । रागार्थं तत्किं नु कौसुम्भमम्भः संव्यानानामन्तकान्तः पुरस्य ॥
Metre: शालिनी

Verse 70
रामेण त्रिःसप्तकृत्वो ह्रदानां चित्रं चक्रे पञ्चकं क्षत्रियास्त्रैः । रक्ताम्भोभिःस्तत्क्षणादेव तस्मिन्संख्येऽसंख्याः प्रवहन्द्वीपवत्यः ॥
Metre: उपजातिः

Verse 71
संदानान्तादस्त्रिभिः शिक्षितास्त्रैरविश्याधः शातशस्त्रावलूनाः । कूर्मौपम्यं व्क्तमन्तर्नदीनामैभाः प्रापन्नङ्घ्रयोऽसृङ्मयीनाम् ॥
Metre: शालिनी

Verse 72
पद्माकारैर्योधवक्त्रैरिभानां कर्णभ्रष्टैश्चामरैरेव हंसैः । सोपस्काराः प्रावहन्नस्रतोयाः स्रोतस्विन्यो वीचिषुच्चैस्तरद्भिः ॥
Metre: शालिनी

Verse 73
उत्क्रान्तानामामिषायोपरिष्टादध्याकाशं बभ्रुमुः पत्रवाहाः । मूर्ताः प्राणाः नूनमद्याप्यवेक्षामासुः कायं त्यजिताः दारुणास्त्रैः ॥
Metre: उपजातिः

Verse 74
आतन्वद्भिर्दिक्षु पत्राग्रनादं प्राप्तैदूरादाशु तीक्ष्णैर्मुखाग्रैः । आदौ रक्तं सैनिकानामजीवैर्जीवैः पश्चात्पत्रिपूगैरपायि ॥
Metre: शालिनी

Verse 75
ओजोभाजां यद्रणे संस्थितानामादत्तीव्रं सार्धमङ्गेन नूनम् । ज्वालाव्याजादुद्वमन्ती तदन्तस्तेजस्तारं दीप्तजिह्वा ववाशे ॥
Metre: शालिनी

Showing 1431 to 1440 of 1644 verses