दिशमर्कमिवावाचीम्मूर्च्छागतमपाहरत् । मन्दप्रतापं तं सूतः शीघ्रमाजिविहायसः ॥
Metre: अनुष्टुप्
कृत्वा शिनेः शाल्वचमूं सप्रभावा चमूर्जिताम् । ससर्ज वक्त्रैः फुल्लाब्जसप्रभा वाचमूर्जिताम् ॥
Metre: अनुष्टुप्
उल्मुकेन द्रुमं प्राप्य संकुचत्पत्रसंपदम् । तेजः प्रकिरता दिक्षु सप्रतापमदीप्यत ॥
Metre: अनुष्टुप्
पृथोरध्यक्षिपधृद्रुक्मी यया चापमुदायुधः । तयैव वाचापगमं ययाचापमुदायुधः ॥
Metre: अनुष्टुप्
समं समन्ततो राज्ञामापतन्तीरनीकिनीः । कार्ष्णिः प्रत्यग्रहीदेकः सारस्वानिव निम्नगाः ॥
Metre: अनुष्टुप्
दधानैर्घनसादृश्यं लसदायसदंशनैः । तत्र काञ्चनसच्छाया ससृजे तैः शराशनिः ॥
Metre: अनुष्टुप्
नखांशुमञ्जरीकीर्णमसौतरुरिवोच्चकैः । बभौ विभ्रमद्धनुःशाखामधिरूढशिलीमुखाम् ॥
Metre: अनुष्टुप्
प्रप्य भीममसौ जन्यं सौजन्यं दधदानते । विध्यन्मुमोच न रिपूनरिपूगान्तकः शरैः ॥
Metre: अनुष्टुप्
कृतस्य सर्वक्षितिपैर्विजयाशंसया पुरः । अनेकस्य चकारासौ बाणैर्बाणस्य खण्डनम् ॥
Metre: अनुष्टुप्
याबभार कृतानेकमाया सेना ससारताम् । धनुः स कर्षन्रहितमायासेनाससार ताम् ॥
Metre: अनुष्टुप्