ततस्ततधनुर्मौर्वीविस्फारस्फारिनिःस्वनैः । तूर्यैर्युगक्षये क्षुभ्यदकूपारानुकारिणी ॥
Metre: अनुष्टुप्
सकारनानारकास कायसाददसायका । रसाहवावाहसार नादवाददवादना ॥
Metre: अनुष्टुप्
लोलासिकालियकुला यमस्यैव स्वसा स्वयम् । चिकीर्षुरुल्लसल्लोहवर्मश्यामा सहायताम् ॥
Metre: अनुष्टुप्
सासेनागमनारम्भे रसेनासीदनारता । तारनादजनामत्त धीरनागमनामया ॥
Metre: अनुष्टुप्
धूतधौतासयः प्रष्ठाः प्रतिष्ठन्तक्षमाभृताम् । शौर्यनुरागनिकषः सा हि वेलानुजीविनाम् ॥
Metre: अनुष्टुप्
दिवमिन्युधा गन्तुं कोमलामलसम्पदम् । दधौ दधानोऽसिलतां कोऽमलामलसम्पदम् ॥
Metre: अनुष्टुप्
कृतोरुवेगं युगपद्व्यजिगीषन्त सैनिकाः । विपक्षं बाहुपरिघैर्जङ्घाभिरितरेतरम् ॥
Metre: अनुष्टुप्
वाहनाजनि मानासे साराजावनमा ततः । मत्तसारगराजेभे भारीहावज्जनध्वनि ॥
Metre: अनुष्टुप्
निध्वनज्जवहारीभा भेजे रागरसात्तमः । ततमानवजारासा सेना मानिजनाहवा ॥
Metre: अनुष्टुप्
अभग्नवृत्ताः प्रसभादाकृष्टा यौवनोद्धतैः । चक्रन्दुरुच्चकैर्मुष्टिग्राह्यमध्या धनुर्लताः ॥
Metre: अनुष्टुप्