शिशुपालवधम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शिशुपालवधम्

Enable Parallel


Showing 1491 to 1500 of 1644 verses
Verse 46
प्रवृत्तेविकसद्ध्वानंसाधनेप्यविषादिभिः । ववृषेविकसद्दानंयुधमाप्यविषाणिभिः ॥
Metre: अनुष्टुप्

Verse 47
पुरः प्रयुक्तैर्युद्धं तच्चलितैर्लब्धशुद्धिभिः । आलापैरिव गान्धर्वमदीप्यत पदातिभिः ॥
Metre: अनुष्टुप्

Verse 48
केनचित्स्वासिनान्येषां मण्डलाग्रानवद्यता । प्रापे कीर्तिप्लुतमहीमण्डलाग्रानवद्यत ॥
Metre: अनुष्टुप्

Verse 49
विहन्तुं विद्विषस्तीक्ष्णः सममेव सुसंहतेः । परिवारात्पृथक्चक्रे खड्गश्चात्मा च केनचित् ॥
Metre: अनुष्टुप्

Verse 50
अन्येन विदधेऽरीणामतिमात्रा विलासिना । उद्गूर्णेन चमूस्तूर्णमतिमात्राविलासिना ॥
Metre: अनुष्टुप्

Verse 51
सहस्रपूरणः कश्चिल्लूनमूर्धासिना द्विषः । तथोर्ध्व एव काबन्धीमभजन्नर्तनक्रियाम् ॥
Metre: अनुष्टुप्

Verse 52
शस्त्रव्रणमयश्रीमदलङ्करणभूषषितः । ददृशेऽन्यो रावणवदलङ्करणभूषितः ॥
Metre: अनुष्टुप्

Verse 53
द्विषद्विशसनच्छेदनिरस्तोरुयुगोऽपरः । सिक्तश्चास्त्रैरुभयथा बभूवारुणविग्रहः ॥
Metre: अनुष्टुप्

Verse 54
भीमतामपरोऽम्भोधिसमेऽधित महाहवे । दाक्षे कोपः शिवस्येव समेधितमहा हवे ॥
Metre: अनुष्टुप्

Verse 55
दन्तौश्चिच्छिदिरे कोपात्प्रतिपक्षं गजा इव । परनिस्त्रिंशनिर्लूनकरवालाः पदातयः ॥
Metre: अनुष्टुप्

Showing 1491 to 1500 of 1644 verses