नैरन्तर्यच्छिन्नदेहान्तरालं दुर्भक्षस्य ज्वालिना वाशितेन । योद्धुर्बाणप्रोतमादीप्य मांसं पाकापूर्वस्वादमादे शिवाभिः ॥
Metre: शालिनी
ग्लानिच्छेदि क्षुत्प्रबोधाय पीत्वा रक्तारिष्टं शोषिताजीर्णशेषम् । स्वादुंकारं कालखण्डोपदंशं क्रोष्टा डिम्बं व्यष्वणद्व्यस्वनञ्च ॥
Metre: शालिनी
क्रव्यात्पूगैः पुष्कराण्यनकानां प्रत्याशाभिर्मेदसो दारितानि । आभीलानि प्राणिनः प्रत्यवस्यन्कालो नूनं व्यददावाननानि ॥
Metre: उपजातिः
कीर्णा रेजे साजिभूमिः समन्तादप्राणद्भिः प्राणभाजां प्रतीकैः । बह्वारम्भैरर्धसंयोजितैर्वा रूपैः स्रष्टुः सृष्टिकर्मान्तशाला ॥
Metre: शालिनी
आयन्तीनामविरतरयंराजकानीकिनीनामित्थं सैन्यैः सममलुघुभिः श्रीपतेरूर्मिमद्भिः । आसीदोघैर्मुहुरिव महद्वारिधेरापगानां दोलायुद्धं कृतगुरुतरध्वानमौद्धत्यभाजाम् ॥
Metre: मन्दाक्रान्ता
अथोत्तस्थे रणाटव्यामसुहृद्वेणुदारिणा । नृपाङ्घ्रिपौघसंघर्षादग्निवद्वेणुदारिणा ॥
Metre: अनुष्टुप्
आपतन्तममुन्दूरादूरीकृतपराक्रमः । बलोऽवलोकयामास मातङ्गमिव केसरी ॥
Metre: अनुष्टुप्
जजौजोजाजिजिज्जाजी तं ततोऽतिततातितुत् । भाभोऽभीभाभिभूभारारारिररिरीररः ॥
Metre: अनुष्टुप्
भवन्भवाय लोकानामाकम्पितमहीतलः । निर्घात इव निर्घोषभीमस्तस्यापतद्रथः ॥
Metre: अनुष्टुप्
रामे रिपुः शरानाजिमहेष्वास विचक्षणे । कोपादथैनं शितमा महेष्वा स विचक्षणे ॥
Metre: अनुष्टुप्