शिशुपालवधम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शिशुपालवधम्

Enable Parallel


Showing 1421 to 1430 of 1644 verses
Verse 56
बाणाक्षिप्तारोहशून्यासनानां प्रक्रान्तानामन्यसैन्यैग्रहीतुम् । संरब्धानां भ्राम्यतामाजिभूमौ वारी वारैः सस्मरे वारणानाम् ॥
Metre: शालिनी

Verse 57
पौनः पुन्यादस्रगन्धेन मत्तो मृद्गन्कोपाल्लोकमायोधनोर्व्यां । पादे लग्नमत्र मालामिभेन्द्रः पाशीकल्पामायतामाचकर्ष ॥
Metre: उपजातिः

Verse 58
कश्चिन्मूर्च्छामेत्य गाढप्रहारः सिक्तः शीतैः शीकरैर्वारणस्य । उच्छ्वास प्रस्थिता तं जिघृक्षुर्व्यर्थाकूता नाकनारी मुमूर्च्छ ॥
Metre: शालिनी

Verse 59
लूनग्रीवात्सायकेनापरस्य द्यामत्युच्चैराननादुत्पतिष्णोः । त्रेसे मुग्धैः सैंहिकेयानुकाराद्रौद्राकारादप्सरोवक्त्रचन्द्रैः ॥
Metre: शालिनी

Verse 60
वृत्तं युद्धे शूरमाश्लिष्य काचिद्रन्तुं तूर्णं मेरुकुञ्जं जगाम । त्यक्त्वा नाग्नौ देहमेति स्म यावत्पत्नी सद्यस्तद्वियोगासमर्था ॥
Metre: शालिनी

Verse 61
त्यक्तप्राणं संयुगे हस्तिनीस्था वीक्ष्य प्रेम्णा तत्क्षणादुद्गतासु । प्राप्याखण्डं देवभूयं सतीत्वादाशिश्लेष स्वैव कञ्चित्पुरन्ध्री ॥
Metre: शालिनी

Verse 62
स्वर्गेवासं कारयन्त्या चिराय प्रत्यग्रत्वं प्रत्यहं धारयन्त्या । कश्चिद्भेजे दिव्यनार्या परस्मिंल्लोके लोकं प्रीणयन्त्येह कीर्त्या ॥
Metre: शालिनी

Verse 63
गत्वा नूनं वैबुधं सद्म रम्यं मूच्छाभाजामाजगामान्तरात्मा । भूयो दृष्टप्रत्ययाः प्राप्तसंज्ञाः साधीयस्ते यद्रणायाद्रियन्ते ॥
Metre: शालिनी

Verse 64
कश्चिच्छ्स्त्रापातमूढोऽपवोढुर्लब्ध्वा भूयश्चेतनामाहवाय । व्यावर्तिष्ट क्रोशतः सख्युरुच्चैस्त्यक्तश्चात्मा का च लोकानुवृत्तिः ॥
Metre: शालिनी

Verse 65
भिन्नोरस्कौशत्रुणाकृष्य दूरादासन्नत्वात्कौचिदेकेषेणैव । अन्योऽन्यावष्टम्भसामर्थ्ययोगार्ध्वावेव स्वर्गतावप्यभूताम् ॥

Showing 1421 to 1430 of 1644 verses