आपस्काराल्लूनगात्रस्य भूमिं निःसाधारं गच्छतोपाङ्मुखस्य । लब्धायामं दन्तयोर्युग्ममेव स्वं नागस्य प्रापदुत्तम्भनत्वम् ॥
Metre: शालिनी
लब्धस्पर्शं भूव्यधादव्यथेन स्थित्वा किंचिद्दन्तयोरन्तराले । ऊर्ध्वार्धासिच्छिन्नदन्तप्रवेष्टं जित्वोत्तस्थे नागमन्येन सद्यः ॥
Metre: शालिनी
हस्तेनाग्रे वीतभीतिं गृहीत्वा कञ्चिद्व्यालः क्षिप्तवानूर्ध्वमुच्चैः । आसीनानां व्योम्नि तस्यैव हेतोः स्वर्गस्त्रीणामर्पयामास नूनम् ॥
Metre: शालिनी
कंचिद्दूरादायतेन द्रढीयःप्रासप्रोतस्रोतसान्तःक्षतेन । हस्ताग्रेण प्राप्तमप्यग्रतोऽभूदानैश्वर्यं वारणस्य ग्रहीतुम् ॥
Metre: शालिनी
तन्वाः पुंसो नन्द गोपात्मजायाः कंसेनेव स्फोटितायाः गजेन । दिव्या मूर्तिर्व्योमगैरुत्पतन्ती वीक्षामासे विस्मितैश्चण्डिकेव ॥
Metre: शालिनी
आक्रम्यैकामग्रपादेन जङ्घामन्यामुच्चैराददानः करेण । संस्थितस्वानं दारुवद्दारुणात्मा कञ्चिन्मध्यात्पाटयामास दन्ती ॥
Metre: शालिनी
शोचित्वाग्रे भृत्ययोर्मृत्युभाजोरर्यः प्रेम्णा नो तथा वल्लभस्य । पूर्वं कृत्वा नेतरस्य प्रसादं पश्चात्तापादाप दाहं यथान्तः ॥
Metre: शालिनी
उत्प्लुत्यारादर्धचन्द्रेण लूने वक्त्रेऽन्यस्य क्रोधदष्टोष्ठदन्ते । सैन्यैः कण्ठच्छेदलीने कबन्धाद्भूयो बिभ्ये वल्गतः सासिपाणेः ॥
Metre: शालिनी
तूर्यारावैराहितोत्तालतालैर्गायन्तीभिः काहलं काहलाभिः । नृत्ते चक्षुःशून्यहस्तप्रयोगं काये कूजन्कम्बुरुच्चैर्जहास ॥
Metre: शालिनी
प्रत्यावृत्तं भङ्गभाजि स्वसैन्ये तुल्यं मुक्तैराकिरन्ति स्म कश्चित् । एकौघेन स्वर्णपुङ्खैर्द्विषन्तः सिद्धाः माल्यैः साधुवादैर्द्वयेऽपि ॥
Metre: शालिनी