शिशुपालवधम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शिशुपालवधम्

Disable Parallel


Showing 1391 to 1400 of 1644 verses
Verse 26
यावच्चक्रे नाञ्जनं बोधनाय व्युत्थानज्ञो हस्तिचारी मदस्य । सेनास्वानाद्दन्तिनामात्मनैव स्थूलास्तावत्प्रावहन्दानकुल्याः ॥
Metre: शालिनी

Verse 27
क्रुध्यन्गन्धादन्यनागाय दूरादारोढारं धूतमूर्धावमत्य । घोरारावध्वनिताशेषदिक्के विष्के नागः पर्याणंसीत्स्व एव ॥
Metre: उपजातिः

Verse 28
प्रत्यासन्ने दन्तिनि प्रातिपक्षे यन्त्रा नागः प्रास्तवक्त्रच्छदोऽपि । क्रोधाक्रान्तः क्रूरनिर्दारिताक्षः प्रेक्षांचक्रे नैव किञ्चिन्मदान्धः ॥
Metre: शालिनी

Verse 29
तूर्णं यावन्नापनिन्ये निषादी वासश्चक्षुर्वारणं वारणस्य । तावत्पूगैरन्यनागाधिरूढः कादम्बानामेकपातैरसीव्यत् ॥
Metre: शालिनी

Verse 30
आस्थद्दृष्टेराच्छदं च प्रमत्तो यन्ता यातुः प्रत्यरीभं द्विपस्य । भग्नस्योच्चैर्बर्हभारेण शङ्कोरवव्राते वीक्षणे च क्षणेन ॥
Metre: उपजातिः

Verse 31
यत्नाद्रक्षन्सुस्थितत्वादनाशं निश्चत्यन्यश्चेतसा भावितेन । अन्त्यावस्थाकालयोग्योपयोगं दध्रेऽभीष्टं रागमापद्धनं वा ॥
Metre: शालिनी

Verse 32
अन्योन्येषां पुष्करैरामृशन्तो दानोद्भेदानुच्चकैभुग्नवालाः । उन्मूर्धानः सन्निपत्यपरान्तैः प्रायुध्यन्त स्पष्टदन्तध्वनीभाः ॥
Metre: उपजातिः

Verse 33
द्राधीयांस संहताः स्थेमभाजश्चारूदग्रास्तीक्ष्णतामत्यजन्तः । दन्ता दन्तैराहताः सामजानां भङ्गं जग्मुर्न स्वयं सामजाताः ॥
Metre: उपजातिः

Verse 34
मातङ्गानां दन्तसंघट्टजन्मा हेमच्छेदछ्छायाचञ्चच्छिखाग्रः । लग्नोऽप्यग्निश्चामरेषु प्रकामं माञ्जिष्ठेषु व्यज्यते न स्म सैन्यैः ॥
Metre: उपजातिः

Verse 35
ओषामासे मत्सरोत्पातवाताश्लिष्यद्दन्तक्ष्मारुहां घर्षणोत्थैः । योगान्तैर्वा वह्निभिर्वारणानामुच्चैर्मूर्धव्योम्नि नक्षत्रमाला ॥
Metre: शालिनी

Showing 1391 to 1400 of 1644 verses