शिशुपालवधम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शिशुपालवधम्

Disable Parallel


Showing 1371 to 1380 of 1644 verses
Verse 6
सान्द्रत्वक्कास्तल्पलाश्लिष्टकक्षा आङ्गीं शोभामाप्नुवन्तश्चतुर्थीम् । कल्पस्यान्ते मारुतेनोपनुन्नाश्चेलुश्चण्डं गण्डशैला इवेभाः ॥
Metre: शालिनी

Verse 7
संक्रीडन्ती तेजिताश्वस्य रागादुद्यम्यारामग्रकायोत्थितस्य । रंहोभाजामक्षधूः स्यन्दनानां हाहाकारं प्राजितुः प्रत्यनन्दत् ॥
Metre: शालिनी

Verse 8
कुर्वाणानां साम्परायान्तरायं भूरेणूनां मृत्युना मार्जनाय । सम्मार्जन्यो नूनमुद्धूयमाना भान्ति स्मोच्चैः केतनानां पताका ॥
Metre: शालिनी

Verse 9
उद्यन्नादं धन्विभिर्निष्ठुराणि स्थूलान्युच्चैर्मण्डलत्वं दधन्ति । आस्फाल्यन्ते कार्मुकाणि स्म कामं हस्त्यारोहैः कुञ्जराणां शिरांसि ॥
Metre: शालिनी

Verse 10
घण्डानादो निस्वनो डिण्डिमानां ग्रैवेयाणामारवो बृंहितानि । आमेतीव प्रत्यवोचन्गजानामुत्साहार्थं वाचमाधोरणस्य ॥
Metre: शालिनी

Verse 11
यातैश्चातुर्विध्यमस्त्रादिभेदादव्यासङ्गैः सौष्ठवाल्लाघवाच्च । शिक्षाशक्तिं प्राहरन्दर्शयन्तो मुक्तामुक्तैरायुधैरायुधीयाः ॥
Metre: शालिनी

Verse 12
रोषावेशादाभिमुख्येन कौचित्पाणिग्राहं रंहसैवोपयातौ । हित्वा हेतीर्मल्लवन्मुष्टिघातं घ्नन्तौ बाहूबाहवि व्यासृजेताम् ॥
Metre: शालिनी

Verse 13
शुद्धाः सङ्गं न कौचित्प्राप्तवन्तो दूरान्मुक्ता शीघ्रतां दर्शयन्तः । अन्तःसेनं विद्विषामाविशन्तो युक्तं चक्रुः सायका वाजितायाः ॥
Metre: उपजातिः

Verse 14
आक्रम्याजेरग्रिमस्कन्धमुच्चैरास्थायाथो वीतशङ्कं शिरश्च । हेलालोला वर्त्म गत्वातिमर्त्यं द्यामारोहन्मानभाजः सुखेन ॥
Metre: शालिनी

Verse 15
रोदोरन्ध्रं व्यश्नुवानानि लोलैरङ्गस्यान्तर्मादितैः स्थावराणि । केचित्गुर्वीमेत्य संयन्निषद्यां क्रीणन्ति स्म प्राणमूल्यैर्यशांसि ॥
Metre: शालिनी

Showing 1371 to 1380 of 1644 verses