गजव्रजाक्रमणभरावनम्रया रसातलं यदखिलमानशे भुवा । नभस्तलं भहुलतरेण रेणुना ततोऽगमत्त्रिजगदिवैकतां स्फुटम् ॥
Metre: रुचिरा
समस्थलीकृतविवरेण पूरिता महीभृतां बलरजसा महागुहाः । रहस्त्रपाविधुरवघूरतार्थिनां नभःसदामुपकरणीयतां ययुः ॥
Metre: रुचिरा
गते मुखच्छदपटसादृशीं दृशः पथस्थिरो दधति घने रजस्यपि । मदानिलैरधिमधुचूतगन्धिभिर्द्विपा द्विपानभिययुरेव रंहसा ॥
Metre: रुचिरा
मदाम्भसा परिगलितेन सप्तधा गजाञ्जनः शमितरजश्चयानधः । उपर्यवस्थितघनपांशुमण्डलानलोकयत्ततपटमण्डपानिव ॥
Metre: रुचिरा
अन्यूनोन्नतयोऽतिमात्रपृथवः पृथ्वीधरश्रीभृतः स्तन्वन्तः कनकावलीभिरुपमां सौदामनीदामभिः । वर्षन्तः शममानयन्नुपलसच्छृङ्गारलेखायुधाः काले कालियकायकालवपुषः पांसून्गजाम्भोमुचः ॥
Metre: शार्दूलविक्रीडितम्
सञ्जग्माते तावपायनपेक्षौ सेनाम्भोधी धीरनादौ रयेण । पक्षच्छेदात्पूर्वमेकत्र देशे वाञ्छन्तौ वा विन्ध्यसह्यौ निलेतुम् ॥
Metre: उपजातिः
पत्तिः पत्तिं वाहमेयाय वाजी नागं नागः स्यन्दनस्थो रथस्थम् । इत्थं सेना वल्लभस्येव रागादङ्गेनाङ्गं प्रत्यनीकस्य भेजे ॥
Metre: शालिनी
रथ्याघोषैर्बृंहणैर्वारणानामैक्यं गच्छन्वाजिनां ह्रेषया च । व्योमव्यापी सन्ततं दुन्दुभीनामव्यक्तोऽभूदीशितेव प्रणादः ॥
Metre: शालिनी
रोषावेशाद्गच्छतां प्रत्यमित्रं दूरोत्क्षिप्तस्थूलबाहुध्वजानाम् । दीर्घास्तिर्यग्वैजयन्तीसदृश्यः पादातानां भ्रेजिरे खड्गलेखाः ॥
Metre: शालिनी
वर्ध्राबद्धा धौरितेन प्रयातामश्वीयानामुच्चकैरुच्चलन्तः । रौक्मा रेजुः स्थासका मूर्तिभाजो दर्पस्येव व्याप्तदेहस्यशेषाः ॥
Metre: शालिनी