शिशुपालवधम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शिशुपालवधम्

Disable Parallel


Showing 1401 to 1410 of 1644 verses
Verse 36
सान्द्राण्भोदश्यामले सामजानां वृन्दे नीताः शोणितैः शोणिमानम् । दन्ताः शोभामापुरम्भोनिधीनां कन्दोद्भेदा वैद्रुमा वारिणीव ॥
Metre: शालिनी

Verse 37
आकम्पाग्रैः केतुभिः सन्निपातं तारोदीर्णग्रैवनादं व्रजन्तः । मग्नानङ्गे गाढमन्यद्विपानां दन्तान्दुःखादुत्त्खनन्ति स्म नागाः ॥
Metre: शालिनी

Verse 38
उत्क्षप्योच्चैः प्रस्फुरन्तं रदाभ्यामीषादन्तः कुञ्जरं शात्रवीयम् । शृङ्गप्रोतप्रावृषेण्याम्बुदस्य स्पष्टं प्रापत्साम्यमुर्वीधरस्य ॥
Metre: शालिनी

Verse 39
भग्नेऽपीभे स्वे परावर्त्य देहं योद्ध्रा सार्धं व्रीडया मुञ्चतेषून् । साकं यन्तुः संमदेनानुबन्धी दूनोऽभीक्ष्णं वारणः प्रत्यरोधि ॥
Metre: शालिनी

Verse 40
व्याप्तं लोकैर्दुःखलभ्यापसारं संरंभित्वादेत्य धीरो महीयः । सेनामध्यं गाहते वारणः स्म ब्रह्मैव प्रागादिदेवोदरान्तः ॥
Metre: शालिनी

Verse 41
भृङ्गश्रेणीश्यामभासां समूहैर्नाराचानां विद्धनीरन्ध्रदेहः । निर्भीकत्वादाहवेनाहतेच्छो हृष्यन्हस्ती हृष्टरोमेव रेजे ॥
Metre: शालिनी

Verse 42
आताम्राभा रोषभाजः कटान्तादाशूत्खाते मार्गणे धूर्गतेन । निश्च्योतन्ती नागराजस्य जज्ञे दानस्याहो लोहितस्येव धारा ॥
Metre: शालिनी

Verse 43
क्रामन्दन्तौ दन्तिनः साहसिक्यादीषादण्डौ मृत्युशय्यातलस्य । सैन्यैरन्यस्तत्क्षणादाशशङ्के स्वर्गस्योच्चैरर्धमार्गाधिरूढः ॥
Metre: शालिनी

Verse 44
कुर्वञ्ज्योत्स्नाविप्रुषां तुल्यरूपस्तारस्ताराजालसारामिव द्याम् । खड्गाघातैर्दारिताद्दन्तिकुम्भादाभाति स्म प्रोच्छलन्मौक्तिकौघः ॥
Metre: शालिनी

Verse 45
दूरोत्क्षिप्तक्षिप्रचक्रेण कृत्तं मत्तो हस्तं हस्तिराजः स्वमेव । भीमं भूमौ लोलमानं सरोषः पादेनासृक्पङ्कपेषं पिपेष ॥
Metre: शालिनी

Showing 1401 to 1410 of 1644 verses