हरिमर्चितवान्महीपतिर्यदि राज्ञस्तव कोऽत्र मत्सरः । न्यसनाय ससौरभस्य कस्तरुसूनस्य शिरस्यसूयति ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
सुकुमारमहो लघीयसां हृदयं तद्गतमप्रियं यतः । सहसैव समुद्गिरन्त्यमी जरयन्त्येव हि तन्मनीषिणः ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
उपकारपरः स्वभावतः सततं सर्वजनस्य सज्जनः । असतामनिशं तथाप्यहो गुरुहृद्रोगकरी तदुन्नतिः ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
परितप्यत एव नोत्तमः परितप्तोऽप्यपरः सुसंवृतिः । परवृद्धिभिराहितव्यथः स्फुटनिर्भिन्नदुराशयोऽधमः ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
अनिराकृततापसंपदं फलहीनां सुमनोभिरुज्झिताम् । खलतां खलतामिवासतीं प्रतिपद्येत कथं बुधो जनः ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
प्रतिवाचमदत्त केशवः शपमानाय न चेदिभूभुजे । अनुहुङ्कुरुते घनध्वनिं न हि गोमायुरुतानि केसरी ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
जितरोषरया महाधियः सपदि क्रोधजितो लघुर्जनः । विजितेन जितस्य दुर्मतेर्मतिमद्भिः सह का विरोधिता ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
वचनैरसतां महीयसो न खलु व्येति गुरुत्वमुद्धतैः । किमपैति रजोभिरौर्वरैरवकीर्णस्य मणेर्महार्घता ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
परितोषयिता न कश्चन स्वगतो यस्य गुणोऽस्ति देहिनः । परदोषकथाभिरल्पकः स्वजनं तोषयितुं किलेच्छति ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
सहजान्धदृशः स्वदुर्नये परदोषेक्षणदिव्यचक्षुषः । स्वगुणोच्चगिरो मुनिव्रताः परवर्णग्रहणेष्वसाधवः ॥