शिशुपालवधम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शिशुपालवधम्

Disable Parallel

Showing 1221 to 1230 of 1644 verses
Verse 10
घनजालनिभैर्दुरासदाः परितो नागकदम्बकैस्तव । नगरेषु भवन्तु वीथयः परिकीर्णा वनजैर्मृगादिभिः ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४

Verse 11
सकलापिहितस्वपौरुषो नियतव्यापदवर्धितोदयः । रिपुरुन्नतधीरचेतसः सततव्याधिरनीतिरस्तु ते ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४

Verse 12
विकचोत्पलचारुलोचनस्तव चैद्येन घटामुपेयुषः । यदुपुङ्गव बन्धुसौहृदात्त्वयि पाता ससुरो नवासवः ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४

Verse 13
चलितानकदुन्दुभिः पुरः सबलस्त्वं सह सारणेन तम् । समितौ रभसादुपागतः सगदः संप्रतिपत्तुमर्हसि ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४

Verse 14
समरेषु रिपून्विनिघ्नता शिशुपालेन समेत्य संप्रति । सुचिरं सह सर्वसात्वतैर्भव विश्वस्तविलासिनीजनः ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४

Verse 15
विजितक्रुधमीक्षतामसौ महतां त्वामहितं महीभृताम् । असकृज्जितसंयतं पुरो मुदितः सप्रमदं महीपतिः ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४

Verse 16
इति जोषमवस्थितं द्विषः प्रणिधिं गामभिधाय सात्यकिः । वदति स्म वचोऽथ चोदितश्चलितैकभ्रू रथाङ्गपाणिना ॥

Verse 17
मधुरं बहिरन्तरप्रियं कृतिनावाचि वचस्तथा त्वया । सकलार्थतया विभाव्यते प्रियमन्तर्बहिरप्रियं यथा ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४

Verse 18
अतिकोमलमेकतोन्यतः सरसाम्भोरुहवृन्तकर्कशम् । वहति स्फुटमेकमेव ते वचनं शाकपलाशदेश्यताम् ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४

Verse 19
प्रकटं मृदु नाम जल्पतः परुषं सूचयतोर्थमन्तरा । शकुनादिव मार्गवर्तिभिः परुषादुद्विजितव्यमीदृशात् ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४

Showing 1221 to 1230 of 1644 verses