शिशुपालवधम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शिशुपालवधम्

Disable Parallel

Showing 1251 to 1260 of 1644 verses
Verse 40
विदुरेष्यदपायमात्मना परतः श्रद्दधतेऽथवा बुधाः । न परोपहितं न च स्वतः प्रमिमीतेऽनुभवादृतेऽल्पधीः ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४

Verse 41
कुशलं खलु तुभ्यमेव तद्वचनं कृष्ण यदभ्यधामहम् । उपदेशपराः परेष्वपि स्वविनाशाभिमुखेषु साधवः ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४

Verse 42
उभयं युगपन्मयोदितं त्वरया सान्त्वमथेतरच्च ते । प्रविभज्य पृथङ्मनीषया स्वगुणं यत्किल तत्करिष्यसि ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४

Verse 43
अथवाभिनिविष्टबुद्धिषु व्रजति व्यर्थकतां सुभाषितम् । रविरागिषु शीतरोचिषः करजालं कमलाकरेष्विव ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४

Verse 44
अनपेक्ष्य गुणागुणौ जनः स्वरुचिं निश्चयतोनुधावति । अपहाय महीशमर्चिचत्सदति त्वां ननु भीमपूर्वजः ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४

Verse 45
त्वयि भक्तिमता न सत्कृतः कुरुराजा गुरुरेव चेदिपः । प्रियमांसमृगाधिपोज्झितः किमवद्यः करिकुम्भजो मणिः ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४

Verse 46
क्रियते धवलः खलूच्चकैर्धवलैरेव सितेतरैरधः । शिरसौधमधत्त श्ङ्करः सुरसिन्धोर्मधुजित्तमङ्घ्रिणा ॥
Metre: गीति (१२, १८, १२, १८)

Verse 47
अबुधैः कृतमानसम्विदस्तव पार्थैः कुत एव योग्यता । सहसि प्लवगैरुपासितं न हि गुञ्जाफलमेति सोष्मताम् ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४

Verse 48
अपराधशतक्षमं नृपः क्षमयात्येति भवन्तमेकया । हृतवत्यपि भीष्मकात्मजां त्वयि चक्षाम समर्थ एव यत् ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४

Verse 49
गुरुभिः प्रतिपादितां वधूमपहृत्य स्वजनस्य भूपतेः । जनकोऽसि जनार्दन स्फुटं हतधर्मार्थतया मनोभुवः ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४

Showing 1251 to 1260 of 1644 verses