सीआविओअदुःखं विसहंतस्स चउजामेंत्ततरिअं।
दीहो अ गओ कालो ण समा एक्क अ सा णिसा रहुवइणो॥ १६०॥
(सीतावियोगदुःखं विषहमाणस्य चतुर्याममात्रान्तरितम्।
दीर्घश्च गतः कालः न समा एका च निशा रघुपतेः॥)
शक्तिसाधनोपायानां प्रवासिषु प्रायो विपर्ययादयः स्वदन्ते, न स्वरूपाणि। ततः तथैव तान्युदाह्रियन्ते। तेषु —
१. शक्तिविपर्ययस्त्रेधा बलविपर्ययः, बुद्धिविपर्ययः, उत्साहविपर्ययश्च। तत्र —
बलविपर्ययो यथा—(गास. ८३२ वे.)
समपंथपत्थिअस्स वि पहिअस्स खलंति पुढमदिअहंमि।
हिअअ—ट्ठिअ—जाआ—गुरु—णिअंबभारेण व पआइ॥ १६१॥
(समपथप्रस्थितस्यापि/पथिकस्य स्खलन्ति प्रथमदिवसे।