(प्रतिपक्षस्यापि पुरतः सम्मुखं भणितासि तेन प्रसीदेति।
अवलम्बितस्य मानिनि! मानस्यापि किं फलमन्यत्॥)
८. विपक्षाभिभवो यथा—(हरिवि.)
तीए सविसेसदूमिअसवत्तिहिअआएँ णिव्वलंत—सिणेहं।
पिअगरुइआअ णिमिअं सोहग्गगुणाण अग्गभूमीएँ पअं॥ ३९८॥
(तया सविशेषदूनसपत्नीहृदयया निर्बलस्नेहम्।
प्रियगुरूकृतया न्यस्तं सौभाग्यगुणानामग्रभूमौ पदम्॥)
क्षुतैः क्वापि प्रीतिः क्वचिदपि निमित्तैः पुलकिता (क्वचिन्मिथ्यावादैर)मितपरितापो विकसितः।
प्रसादार्थं मुग्धे तव विगतलज्जोऽनृतशते— ष्वभिज्ञो दैवज्ञं जनमपि च ते पृच्छति पतिः॥ ३९९॥