१०. बन्धुबहुमानो यथा—(सूमु. २०५)
चक्षुर्लुप्तमषीकणं कबलितस्ताम्बूलरागोऽधरे विश्रान्ता कबरी कपोलफलके लुप्तेव गात्रद्युतिः।
मन्ये मानिनि! साम्प्रतं प्रणयिना कैरप्युपायक्रमै— र्भग्नो मानतरुस्तथापि फलितश्चेतस्थलीवर्धितः॥ ४००॥
११. लाभविशेषो यथा—(हरिवि.)
दार-ट्ठविअ-सुर-दुमं तं चिअ कुसुमोवआरग्घविअं।
अण्णं च सच्चविज्जइ परिओस-परित्त-परिअणं तीएॅ घरं॥ ४०१॥
(द्वारस्थापितसुरद्रुमं तदेव कुसुमोपहारार्घितम्।
अन्यच्च संवीक्ष्यते परितोषपरीतपरिजनं तस्या गृहम्॥)
पणअपरिपूरणेण अविरअभूसिअपिअअमागमेण अ गरुओ।