उन्नमय्य सकचग्रहमास्यं चुम्बति प्रियतमे हठवृत्त्या।
हुंहु मुञ्च म म मेति च मन्दं जल्पितं जयति मानवतीनाम्॥ ३९३॥
४. चुम्बनबलात्कारो यथा—(गास. ५.३५)
पाअपडणाण मुद्धे रभसबलामोडिचुंबिअव्वाणं।
दंसणमेत्तपसज्जिरि चुक्कासि सुहाणं बहुआण॥ ३९४॥
(पादपतनानां मुग्धे! रभसबलात्कारचुम्बितव्यानाम्।
दर्शनमात्रप्रसन्नशीले च्युतासि सुखानां बहुकानां॥)
श्वासोत्कम्पितकम्पि ॰ ॰ ॰ ॰।