आत्ता लक्षयितुमन्यमेव तस्या रसान्तरं मुखशोभा॥)
थोअत्थोअ—पसरिओ तीए णिरंतर—परिट्ठिआमरिस—रसं।
लंघेइ च्चिअ हिअअं पडिवल्लेहोण्णअ/इसहो परिओसो॥ ३५७॥
(स्तोकस्तोकप्रसृतः तस्याः निरन्तरपरिस्थितामर्षरसम्।
लङ्घयतीव हृदयं प्रतिपल्लेखोन्नतिसखः परितोषः॥)
४. विपक्षाभिभवो यथा—(हरिवि.)
थोओसरंतरोसं थोअत्थोअ—परिवड्ढमाण—पहरिसं।
होइ अदूरपसाअं उहअ—रसाअत्त—विब्भमं तीए मुहं॥ ३५८॥
(स्तोकापसरद्रोषं स्तोक—स्तोक—परिवर्धमानप्रहर्षम्।