ओसोरिअंमि पढमं दूईएव्व दोसिणाए माणग्गहणे॥ ३५२॥
जा अणुणअं ण गेहणइ माणक्खलणंमि सहिअणेण वि भणिआ।
पाअपडणेहिं णेंतं सच्चिअ कआवि पिअं णिवारेइ पिआ॥ ३५३॥
(या अनुनयं न गृह्णाति मानस्खलने सखीजनेनापि भणिता।
पादपतनैः यान्तं सैव कदापि प्रियं निवारयति प्रिया॥)
१२. विविक्तं यथा—(माघ. ४.४५)
या न ययौ प्रियमन्यवधूभ्यः सारतरागमना यतमानम्।
तेन सहेह बिभर्ति रहः स्त्री सा रतरागमनायतमानम्॥ ३५४॥