अथ तथा स्थिते सौदक-प्रान्त-गतेनैकेन मण्डूकेन पृष्टः-माम ! किमद्य यथा-पूर्वमाहारार्थं न विहरसि ।
सोऽब्रवीत्-भद्र ! कुतो मे मन्द-भाग्यस्याहाराभिलाषः ? यत्कारणमद्य रात्रौ प्रदोष एव मयाहारार्थं विहरमाणेन दृष्ट एको मण्डूकः । तद्-ग्रहणार्थं मया क्रमः सज्जितः । सोऽपि मां दृष्ट्वा मृत्यु-भयेन स्वाध्याय-प्रसक्तानां ब्राह्मणानामन्तरमपक्रान्तो न विभावितो मया क्वापि गतः । तत्-सादृश्य-मोहित-चित्तेन मया कस्यचिद्ब्राह्मणस्य सूनोर्ह्रद-तट-जलान्तः-स्थोऽङ्गुष्ठो दष्टः । ततोऽसौ सपदि पञ्चत्वमुपागतः ।
अथ तस्य पित्रा दुःखितेनाहं शप्तो यथा-दुरात्मन् ! त्वया निरपराधो मत्-सुतो दष्टः । तदनेन दोषेण त्वं मण्डूकानां वाहनं भविष्यसि, तत्-प्रसाद-लब्ध-जीविकया वर्तिष्ये इति । ततोऽहं युष्माकं वाहनार्थमागतोऽस्मि ।
तेन च सर्व-मण्डूकानामिदमावेदितम् । ततस्तैः प्रहृष्ट-मनोभिः सर्वैरेव गत्वा जल-पाद-नाम्नो दर्दुर-राजस्य विज्ञप्तम् । अथासावपि मन्त्रि-परिवृतोऽत्यद्भुतमिदमिति मन्यमानो स-सम्भ्रमं ह्रदादुत्तीर्य मन्द-विषस्य फणिनः फणा-प्रदेशमधिरूढः । शेषा अपि यथा-ज्येष्ठं तत्-पृष्ठोपरि समारुरुहुः । किं बहुना,उपरित-स्थानमप्राप्तवन्तस्तस्यानुपदं धावन्ति । मन्दविषोऽपि तेषां तुष्ट्य्-अर्थमनेक-प्रकारान्गति-विशेषानदर्शयत् । अथ जलपादो लब्ध-सुखस्तमाह—
न तथा करिणा यानं तुरगेण रथेन वा । नर-यानेन वा यानं यथा मन्दविषेण मे ॥
Metre: अनुष्टुप्
अथान्येद्युर्मन्द-विषश्छद्मना मन्दं मन्दं विसर्पति । तच्च दृष्ट्वा जलपादोऽब्रवीत्-भद्र ! मन्दविष ! यथा-पूर्वं किमद्य साधु नोह्यते ?
मन्दविषोऽब्रवीत्-देव अद्याहार-वैकल्यान्न मे वोढुं शक्तिरस्ति ।
अथासावब्रवीत्-भद्र ! भक्षय क्षुद्र-मण्डूकान् ।
तच्छ्रुत्वा प्रहर्षित-सर्व-गात्रो मन्दविषः स-सम्भ्रममब्रवीत्-ममायमेव विप्र-शापोऽस्ति । तत्तवानेनानुज्ञा-वचनेन प्रीतोऽस्मि ।
ततोऽसौ नैरन्तर्येण मण्डूकान्भक्षयन्कतिपयैरेवाहोभिर्बलवान्संवृत्तः । प्रहृष्टश्चान्तर्-लीनमवहस्येदमब्रवीत्—