पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Enable Parallel


Showing 521 to 530 of 601 verses
Verse 227
शक्तेनापि सता जनेन विदुषा कालान्तरापेक्षिणा वस्तव्यं खलु वाक्य-वज्र-विषमे क्षुद्रेऽपि पापे जने । दर्वी-व्यग्र-करेण धूम-मलिनेनायास-युक्ते च भीमेनातिबलेन मत्स्य-भवने किं नोषितं सूदवत् ॥
Metre: शार्दूलविक्रीडितम्

Verse 228
यद्वा तद्वा विषम-पतितः साधु वा गर्हितं वा कालापेक्षी हृदय-निहितं बुद्धिमान्कर्म कुर्यात् । किं गाण्डीव-स्फुरद्-उरु-गुणास्फालन-क्रूर-पाणिर्नासील्लीला-नटन-विलसन्मेखली सव्यसाची ॥
Metre: मन्दाक्रान्ता

Verse 229
सिद्धिं प्रार्थयता जनेन विदुषा तेजो निगृह्य स्वकं सत्त्वोत्साहवतापि दैव-विधिषु स्थैर्यं प्रकार्य क्रमात् । देवेन्द्र-द्रविणेश्वरान्तक-समैरप्यन्वितो भ्रातृभिः किं क्लिष्टः सुचिरं विराट-भवने श्रीमान्न धर्मात्मजः ॥
Metre: शार्दूलविक्रीडितम्

Verse 230
रूपाभिजन-सम्पन्नो माद्री-पुत्रौ बलान्वितौ । गोकर्म-रक्षा-व्यापारे विराट-प्रेष्यतां गतौ ॥
Metre: अनुष्टुप्

Verse 231
रूपेणाप्रतिमेन यौवन-गुणैः श्रेष्ठे कुले जन्मना कान्त्या श्रीरिव यात्र सापि विदशां काल-क्रमादागता । सैरन्ध्रीति स-गर्वितं युवतिभिः साक्षेपमाख्यातया द्रौपद्या ननु मत्स्य-राज-भवने धृष्टं न किं चन्दनम् ॥
Metre: शार्दूलविक्रीडितम्

मेघवर्ण आह—तात !असि-धारा-व्रतमिदं मन्ये यदरिणा सह संवासः ।

सोऽब्रवीत्-देव !एवमेतत् । परं न तादृङ्-मूर्ख-समागमः क्वापि मया दृष्टः । न च महाप्रज्ञमनेक-शास्त्रेष्वप्रतिम-बुद्धिं रक्ताक्षं विना धीमान् । यत्-कारणं तेन मदीयं यथावस्थितं चित्तं ज्ञातम् । ये पुनरन्ये मन्त्रिणस्ते महा-मूर्खा मन्त्रि-मात्र-व्यपदेशोपजीविनोऽतत्त्व-कुशला, यैरिदमपि न ज्ञातम् । यतः—

Verse 232
अरितोऽभ्यागतो भृत्यो दुष्टस्तत्-सङ्ग-तत्-परः । अपसर्प-सधर्मत्वान्नित्योद्वेगी च दूषितः ॥
Metre: अनुष्टुप्

Verse 233
आसने शयने याने पान-भोजन-वस्तुषु । दृष्ट्वान्तरं प्रमत्तेषु प्रहरन्त्यरयोऽरिषु ॥
Metre: अनुष्टुप्

Verse 234
तस्मात्सर्व-प्रयत्नेन त्रिवर्ग-निलयं बुधः । आत्मानमादृतो रक्षेत्प्रमादाद्धि विनश्यति ॥
Metre: अनुष्टुप्

Showing 521 to 530 of 601 verses