भय-सन्त्रस्त-मनसां हस्त-पादादिकाः क्रियाः । प्रवर्तन्ते न वाणी च वेपथुश्चाधिको भवेत् ॥
Metre: अनुष्टुप्
तदहमस्याह्वानं करोमि येन तद्-अनुसारेण प्रविष्टोऽयं मे भोज्यतां यास्यति । एवं सम्प्रधार्य सिंहस्तस्याह्वानमकरोत् । अथ सिंह-शब्देन सा गुहा प्रतिरव-सम्पूर्णा अन्यानपि दूर-स्थानरण्य-जीवांस्त्रासयामास । शृगालोऽपि पलायमान इमं श्लोकमपठत्-अनागतं यः कुरुते स शोभते इत्यादि ।
तदेवं मत्वा युष्माभिर्मया सह गन्तव्यमिति । एवमभिधायात्मानुयायि-परिवारानुगतो दूर-देशान्तरं रक्ताक्षो जगाम ।
अथ रक्ताक्षे गते स्थिरजीव्यतिहृष्ट-मना व्यचिन्तयत्-अहो ! कल्याणमस्माकमुपस्थितम्, यद्रक्तांशो गतः स दीर्घदर्शी एते च मूढ-मनसः । ततो मम सुख-घात्याः सञ्जाताः । उक्तं च यतः—
न दीर्घ-दर्शिनो यस्य मन्त्रिणः स्युर्महीपतेः । क्रमायाता ध्रुवं तस्य न चिरात्स्यात्परिक्षयः ॥
Metre: अनुष्टुप्
मन्त्रि-रूपा हि रिपवः सम्भाव्यास्ते विचक्षणैः । ये सन्तं नयमुत्सृज्य सेवन्ते प्रतिलोमतः ॥
Metre: अनुष्टुप्
एवं विचिन्त्य स्व-कुलाय एकैकां वन-काष्ठिकां गुहा-प्रदीपनार्थं दिने दिने प्रक्षिपति । न च ते मूर्खा उलूका विजानन्ति, यदेष कुलायमस्मद्-दाहाय वृद्धिं नयति । अथवा साध्विदमुच्यते—
अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च । शुभं वेत्त्यशुभं पापं भद्रं दैव-हतो नरः ॥
Metre: अनुष्टुप्
अथ कुलाय-व्याजेन दुर्ग-द्वारे कृते काष्ठ-निचये, सञ्जाते सूर्योदये,अन्धतां प्राप्तेषूलूकेषु सत्सु स्थिरजीवी शीघ्रम् ऋष्यमूकं गत्वा मेघवर्णमाह-स्वामिन् ! दाह-साध्या कृता रिपु-गुहाः । तत्सपरिवारः समेत्यैकैका वन-काष्ठिकां ज्वलन्ती गृहीत्वा गुहा-द्वारेऽस्मत्-कुलाये प्रक्षिप येन सर्वे शत्रवः कुम्भीपाक-नरक-प्रायेण दुःखेन म्रियन्ते ।